Ṛk 3.18.5
Saṃhitā
कृ॒धि रत्नं॑ सुसनित॒र्धना॑नां॒ स घेद॑ग्ने भवसि॒ यत्समि॑द्धः ।
स्तो॒तुर्दु॑रो॒णे सु॒भग॑स्य रे॒वत्सृ॒प्रा क॒रस्ना॑ दधिषे॒ वपूं॑षि ॥
कृधि रत्नं सुसनितर् धनानां स घेद् अग्ने भवसि यत् समिद्धः |
स्तोतुर् दुरोणे सुभगस्य रेवत् सृप्रा करस्ना दधिषे वपूंषि ||
kṛdhí rátnam susanitardhánānām sá ghédagne bhavasi yátsámiddhaḥ ǀ
stotúrduroṇé subhágasya revátsṛprā́ karásnā dadhiṣe vápūṃṣi ǁ
kṛdhi ratnaṃ susanitar dhanānāṃ sa ghed agne bhavasi yat samiddhaḥ |
stotur duroṇe subhagasya revat sṛprā karasnā dadhiṣe vapūṃṣi ||
Padapāṭha
कृ॒धि । रत्न॑म् । सु॒ऽस॒नि॒तः॒ । धना॑नाम् । सः । घ॒ । इत् । अ॒ग्ने॒ । भ॒व॒सि॒ । यत् । सम्ऽइ॑द्धः ।
स्तो॒तुः । दु॒रो॒णे । सु॒ऽभग॑स्य । रे॒वत् । सृ॒प्रा । क॒रस्ना॑ । द॒धि॒षे॒ । वपूं॑षि ॥
कृधि । रत्नम् । सुऽसनितः । धनानाम् । सः । घ । इत् । अग्ने । भवसि । यत् । सम्ऽइद्धः ।
स्तोतुः । दुरोणे । सुऽभगस्य । रेवत् । सृप्रा । करस्ना । दधिषे । वपूंषि ॥
kṛdhí ǀ rátnam ǀ su-sanitaḥ ǀ dhánānām ǀ sáḥ ǀ gha ǀ ít ǀ agne ǀ bhavasi ǀ yát ǀ sám-iddhaḥ ǀ
stotúḥ ǀ duroṇé ǀ su-bhágasya ǀ revát ǀ sṛprā́ ǀ karásnā ǀ dadhiṣe ǀ vápūṃṣi ǁ
kṛdhi ǀ ratnam ǀ su-sanitaḥ ǀ dhanānām ǀ saḥ ǀ gha ǀ it ǀ agne ǀ bhavasi ǀ yat ǀ sam-iddhaḥ ǀ
stotuḥ ǀ duroṇe ǀ su-bhagasya ǀ revat ǀ sṛprā ǀ karasnā ǀ dadhiṣe ǀ vapūṃṣi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.018.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.1.18.05
- Maṇḍala · Anuvāka · Ṛk
- 03.02.037
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Kata Vaiśvāmitra
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.