Ṛgveda · Maṇḍala 3 · Sūkta 46

Ṛk 3.46.5

Indra · Viśvāmitra Gāthina

The whole sūkta Link

Saṃhitā

यं सोम॑मिंद्र पृथि॒वीद्यावा॒ गर्भं॒ न मा॒ता बि॑भृ॒तस्त्वा॒या ।
तं ते॑ हिन्वंति॒ तमु॑ ते मृजंत्यध्व॒र्यवो॑ वृषभ॒ पात॒वा उ॑ ॥

यं सोमम् इन्द्र पृथिवीद्यावा गर्भं न माता बिभृतस् त्वाया |
तं ते हिन्वन्ति तम् उ ते मृजन्त्य् अध्वर्यवो वृषभ पातवा उ ||

yám sómamindra pṛthivī́dyā́vā gárbham ná mātā́ bibhṛtástvāyā́ ǀ
tám te hinvanti támu te mṛjantyadhvaryávo vṛṣabha pā́tavā́ u ǁ

yaṃ somam indra pṛthivīdyāvā garbhaṃ na mātā bibhṛtas tvāyā |
taṃ te hinvanti tam u te mṛjanty adhvaryavo vṛṣabha pātavā u ||

Padapāṭha

यम् । सोम॑म् । इ॒न्द्र॒ । पृ॒थि॒वीद्यावा॑ । गर्भ॑म् । न । मा॒ता । बि॒भृ॒तः । त्वा॒ऽया ।
तम् । ते॒ । हि॒न्व॒न्ति॒ । तम् । ऊं॒ इति॑ । ते॒ । मृ॒ज॒न्ति॒ । अ॒ध्व॒र्यवः॑ । वृ॒ष॒भ॒ । पात॒वै । ऊं॒ इति॑ ॥

यम् । सोमम् । इन्द्र । पृथिवीद्यावा । गर्भम् । न । माता । बिभृतः । त्वाऽया ।
तम् । ते । हिन्वन्ति । तम् । ऊं इति । ते । मृजन्ति । अध्वर्यवः । वृषभ । पातवै । ऊं इति ॥

yám ǀ sómam ǀ indra ǀ pṛthivī́dyā́vā ǀ gárbham ǀ ná ǀ mātā́ ǀ bibhṛtáḥ ǀ tvā-yā́ ǀ
tám ǀ te ǀ hinvanti ǀ tám ǀ ūṃ íti ǀ te ǀ mṛjanti ǀ adhvaryávaḥ ǀ vṛṣabha ǀ pā́tavái ǀ ūṃ íti ǁ

yam ǀ somam ǀ indra ǀ pṛthivīdyāvā ǀ garbham ǀ na ǀ mātā ǀ bibhṛtaḥ ǀ tvā-yā ǀ
tam ǀ te ǀ hinvanti ǀ tam ǀ ūṃ iti ǀ te ǀ mṛjanti ǀ adhvaryavaḥ ǀ vṛṣabha ǀ pātavai ǀ ūṃ iti ǁ

References

Maṇḍala · Sūkta · Ṛk
03.046.05
Aṣṭaka · Adhyāya · Varga · Ṛk
3.3.10.05
Maṇḍala · Anuvāka · Ṛk
03.04.059
Devatā देवता
Indra
Ṛṣi ऋषि
Viśvāmitra Gāthina
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.46.5

Interpretations

Sāyaṇa

हे इन्द्र पृथिवीद्यावा द्यावापृघिव्यौ त्वाया त्वत्कामनया यं सोमं बिभृतोऽन्तर्धारयतः । अत्र दृष्टान्तः । बर्भं न । यथा माता गर्घं बिभर्ति तद्वत् हे वृषभ कामानां वर्षक हे इन्द्र अध्वर्यवोऽध्वरं यजमानायेच्छन्तस्ते त्वदर्थं तं सोमं हिन्वन्ति । प्रेरयन्ति । किञ्च ते तव पातवै पानाय तं सोमं मृजन्ति । शोधयन्ति । उ प्रसिद्धौ । पृथिवीद्यावा । दिवो द्यावेति द्यावादेशः । आद्युदात्तः । नोत्तरपदेऽनुदात्तादावपृधिवीरुद्रपूषमन्थिष्वित्यत्र पर्युदासाद्देवताद्वन्द्वे चेत्युभयपदप्रकृतिस्वरः । कृतसमासस्य विपर्यासश्छान्दसः । बिभृतः । डुभृञ् धारण पोशणयोरित्यस्माल्लटि भृञामिदित्यभ्यासस्येत्वं । यद्वृत्तयोगादनिघातः । अजादिप्रत्ययपरत्वाभावादत्राभ्यस्तानामादिरिति स्वरो न भवति । प्रत्ययस्वरः । त्वाया । त्वामिच्छतीत्यर्थे सुप आत्मनः क्यच् । पूर्वपददकारस्याकारश्छान्दसः । अ प्रत्ययादिति भावेऽप्रत्ययः । सुपां सुलुगिति तृतीयायाः सवर्नदीर्घः । एकादेशस्वरः । अध्वर्यवः । अध्वरमिच्छन्तः । सुपः क्यच् । क्व्यध्वरपृतनस्यर्चि लोप इत्याकारलोपः । क्याच्छन्दसीत्युप्रत्ययः । प्रत्ययस्वरः । पातवै । पा पाने । तुमर्थे तनैप्रत्ययः । अन्तश्च तवै युगपदिति धात्वन्तस्य प्रत्ययस्य चोदात्तत्वं उञ इति प्रगृह्यसंज्ञा ॥ ५ ॥