Ṛk 4.36.4
Saṃhitā
एकं॒ वि च॑क्र चम॒सं चतु॑र्वयं॒ निश्चर्म॑णो॒ गाम॑रिणीत धी॒तिभिः॑ ।
अथा॑ दे॒वेष्व॑मृत॒त्वमा॑नश श्रु॒ष्टी वा॑जा ऋभव॒स्तद्व॑ उ॒क्थ्यं॑ ॥
एकं वि चक्र चमसं चतुर्वयं निश् चर्मणो गाम् अरिणीत धीतिभिः |
अथा देवेष्व् अमृतत्वम् आनश श्रुष्टी वाजा ऋभवस् तद् व उक्थ्यम् ||
ékam ví cakra camasám cáturvayam níścármaṇo gā́mariṇīta dhītíbhiḥ ǀ
áthā devéṣvamṛtatvámānaśa śruṣṭī́ vājā ṛbhavastádva ukthyam ǁ
ekaṃ vi cakra camasaṃ caturvayaṃ niś carmaṇo gām ariṇīta dhītibhiḥ |
athā deveṣv amṛtatvam ānaśa śruṣṭī vājā ṛbhavas tad va ukthyam ||
Padapāṭha
एक॑म् । वि । च॒क्र॒ । च॒म॒सम् । चतुः॑ऽवयम् । निः । चर्म॑णः । गाम् । अ॒रि॒णी॒त॒ । धी॒तिऽभिः॑ ।
अथ॑ । दे॒वेषु॑ । अ॒मृ॒त॒ऽत्वम् । आ॒न॒श॒ । श्रु॒ष्टी । वा॒जाः॒ । ऋ॒भ॒वः॒ । तत् । वः॒ । उ॒क्थ्य॑म् ॥
एकम् । वि । चक्र । चमसम् । चतुःऽवयम् । निः । चर्मणः । गाम् । अरिणीत । धीतिऽभिः ।
अथ । देवेषु । अमृतऽत्वम् । आनश । श्रुष्टी । वाजाः । ऋभवः । तत् । वः । उक्थ्यम् ॥
ékam ǀ ví ǀ cakra ǀ camasám ǀ cátuḥ-vayam ǀ níḥ ǀ cármaṇaḥ ǀ gā́m ǀ ariṇīta ǀ dhītí-bhiḥ ǀ
átha ǀ devéṣu ǀ amṛta-tvám ǀ ānaśa ǀ śruṣṭī́ ǀ vājāḥ ǀ ṛbhavaḥ ǀ tát ǀ vaḥ ǀ ukthyám ǁ
ekam ǀ vi ǀ cakra ǀ camasam ǀ catuḥ-vayam ǀ niḥ ǀ carmaṇaḥ ǀ gām ǀ ariṇīta ǀ dhīti-bhiḥ ǀ
atha ǀ deveṣu ǀ amṛta-tvam ǀ ānaśa ǀ śruṣṭī ǀ vājāḥ ǀ ṛbhavaḥ ǀ tat ǀ vaḥ ǀ ukthyam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.036.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.07.04
- Maṇḍala · Anuvāka · Ṛk
- 04.04.035
- Devatā देवता
- Ṛbhus
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.