Ṛk 4.36.8
Saṃhitā
यू॒यम॒स्मभ्यं॑ धि॒षणा॑भ्य॒स्परि॑ वि॒द्वांसो॒ विश्वा॒ नर्या॑णि॒ भोज॑ना ।
द्यु॒मंतं॒ वाजं॒ वृष॑शुष्ममुत्त॒ममा नो॑ र॒यिमृ॑भवस्तक्ष॒ता वयः॑ ॥
यूयम् अस्मभ्यं धिषणाभ्यस् परि विद्वांसो विश्वा नर्याणि भोजना |
द्युमन्तं वाजं वृषशुष्मम् उत्तमम् आ नो रयिम् ऋभवस् तक्षता वयः ||
yūyámasmábhyam dhiṣáṇābhyaspári vidvā́ṃso víśvā náryāṇi bhójanā ǀ
dyumántam vā́jam vṛ́ṣaśuṣmamuttamámā́ no rayímṛbhavastakṣatā́ váyaḥ ǁ
yūyam asmabhyaṃ dhiṣaṇābhyas pari vidvāṃso viśvā naryāṇi bhojanā |
dyumantaṃ vājaṃ vṛṣaśuṣmam uttamam ā no rayim ṛbhavas takṣatā vayaḥ ||
Padapāṭha
यू॒यम् । अ॒स्मभ्य॑म् । धि॒षणा॑भ्यः । परि॑ । वि॒द्वांसः॑ । विश्वा॑ । नर्या॑णि । भोज॑ना ।
द्यु॒ऽमन्त॑म् । वाज॑म् । वृष॑ऽशुष्मम् । उ॒त्ऽत॒मम् । आ । नः॒ । र॒यिम् । ऋ॒भ॒वः॒ । त॒क्ष॒त॒ । आ । वयः॑ ॥
यूयम् । अस्मभ्यम् । धिषणाभ्यः । परि । विद्वांसः । विश्वा । नर्याणि । भोजना ।
द्युऽमन्तम् । वाजम् । वृषऽशुष्मम् । उत्ऽतमम् । आ । नः । रयिम् । ऋभवः । तक्षत । आ । वयः ॥
yūyám ǀ asmábhyam ǀ dhiṣáṇābhyaḥ ǀ pári ǀ vidvā́ṃsaḥ ǀ víśvā ǀ náryāṇi ǀ bhójanā ǀ
dyu-mántam ǀ vā́jam ǀ vṛ́ṣa-śuṣmam ǀ ut-tamám ǀ ā́ ǀ naḥ ǀ rayím ǀ ṛbhavaḥ ǀ takṣata ǀ ā́ ǀ váyaḥ ǁ
yūyam ǀ asmabhyam ǀ dhiṣaṇābhyaḥ ǀ pari ǀ vidvāṃsaḥ ǀ viśvā ǀ naryāṇi ǀ bhojanā ǀ
dyu-mantam ǀ vājam ǀ vṛṣa-śuṣmam ǀ ut-tamam ǀ ā ǀ naḥ ǀ rayim ǀ ṛbhavaḥ ǀ takṣata ǀ ā ǀ vayaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.036.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.08.03
- Maṇḍala · Anuvāka · Ṛk
- 04.04.039
- Devatā देवता
- Ṛbhus
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.