Ṛk 4.36.1
Saṃhitā
अ॒न॒श्वो जा॒तो अ॑नभी॒शुरु॒क्थ्यो॒३॒॑ रथ॑स्त्रिच॒क्रः परि॑ वर्तते॒ रजः॑ ।
म॒हत्तद्वो॑ दे॒व्य॑स्य प्र॒वाच॑नं॒ द्यामृ॑भवः पृथि॒वीं यच्च॒ पुष्य॑थ ॥
अनश्वो जातो अनभीशुर् उक्थ्यो रथस् त्रिचक्रः परि वर्तते रजः |
महत् तद् वो देव्यस्य प्रवाचनं द्याम् ऋभवः पृथिवीं यच् च पुष्यथ ||
anaśvó jātó anabhīśúrukthyó ráthastricakráḥ pári vartate rájaḥ ǀ
maháttádvo devyásya pravā́canam dyā́mṛbhavaḥ pṛthivī́m yácca púṣyatha ǁ
anaśvo jāto anabhīśur ukthyo rathas tricakraḥ pari vartate rajaḥ |
mahat tad vo devyasya pravācanaṃ dyām ṛbhavaḥ pṛthivīṃ yac ca puṣyatha ||
Padapāṭha
अ॒न॒श्वः । जा॒तः । अ॒न॒भी॒शुः । उ॒क्थ्यः॑ । रथः॑ । त्रि॒ऽच॒क्रः । परि॑ । व॒र्त॒ते॒ । रजः॑ ।
म॒हत् । तत् । वः॒ । दे॒व्य॑स्य । प्र॒ऽवाच॑नम् । द्याम् । ऋ॒भ॒वः॒ । पृ॒थि॒वीम् । यत् । च॒ । पुष्य॑थ ॥
अनश्वः । जातः । अनभीशुः । उक्थ्यः । रथः । त्रिऽचक्रः । परि । वर्तते । रजः ।
महत् । तत् । वः । देव्यस्य । प्रऽवाचनम् । द्याम् । ऋभवः । पृथिवीम् । यत् । च । पुष्यथ ॥
anaśváḥ ǀ jātáḥ ǀ anabhīśúḥ ǀ ukthyáḥ ǀ ráthaḥ ǀ tri-cakráḥ ǀ pári ǀ vartate ǀ rájaḥ ǀ
mahát ǀ tát ǀ vaḥ ǀ devyásya ǀ pra-vā́canam ǀ dyā́m ǀ ṛbhavaḥ ǀ pṛthivī́m ǀ yát ǀ ca ǀ púṣyatha ǁ
anaśvaḥ ǀ jātaḥ ǀ anabhīśuḥ ǀ ukthyaḥ ǀ rathaḥ ǀ tri-cakraḥ ǀ pari ǀ vartate ǀ rajaḥ ǀ
mahat ǀ tat ǀ vaḥ ǀ devyasya ǀ pra-vācanam ǀ dyām ǀ ṛbhavaḥ ǀ pṛthivīm ǀ yat ǀ ca ǀ puṣyatha ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.036.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.07.01
- Maṇḍala · Anuvāka · Ṛk
- 04.04.032
- Devatā देवता
- Ṛbhus
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.