Ṛgveda · Maṇḍala 4 · Sūkta 35

Ṛk 4.35.9

Ṛbhus · Vāmadeva Gautama

The whole sūkta Link

Saṃhitā

यत्तृ॒तीयं॒ सव॑नं रत्न॒धेय॒मकृ॑णुध्वं स्वप॒स्या सु॑हस्ताः ।
तदृ॑भवः॒ परि॑षिक्तं व ए॒तत्सं मदे॑भिरिंद्रि॒येभिः॑ पिबध्वं ॥

यत् तृतीयं सवनं रत्नधेयम् अकृणुध्वं स्वपस्या सुहस्ताः |
तद् ऋभवः परिषिक्तं व एतत् सम् मदेभिर् इन्द्रियेभिः पिबध्वम् ||

yáttṛtī́yam sávanam ratnadhéyamákṛṇudhvam svapasyā́ suhastāḥ ǀ
tádṛbhavaḥ páriṣiktam va etátsám mádebhirindriyébhiḥ pibadhvam ǁ

yat tṛtīyaṃ savanaṃ ratnadheyam akṛṇudhvaṃ svapasyā suhastāḥ |
tad ṛbhavaḥ pariṣiktaṃ va etat sam madebhir indriyebhiḥ pibadhvam ||

Padapāṭha

यत् । तृ॒तीय॑म् । सव॑नम् । र॒त्न॒ऽधेय॑म् । अकृ॑णुध्वम् । सु॒ऽअ॒प॒स्या । सु॒ऽह॒स्ताः॒ ।
तत् । ऋ॒भ॒वः॒ । परि॑ऽसिक्तम् । वः॒ । ए॒तत् । सम् । मदे॑भिः । इ॒न्द्रि॒येभिः॑ । पि॒ब॒ध्व॒म् ॥

यत् । तृतीयम् । सवनम् । रत्नऽधेयम् । अकृणुध्वम् । सुऽअपस्या । सुऽहस्ताः ।
तत् । ऋभवः । परिऽसिक्तम् । वः । एतत् । सम् । मदेभिः । इन्द्रियेभिः । पिबध्वम् ॥

yát ǀ tṛtī́yam ǀ sávanam ǀ ratna-dhéyam ǀ ákṛṇudhvam ǀ su-apasyā́ ǀ su-hastāḥ ǀ
tát ǀ ṛbhavaḥ ǀ pári-siktam ǀ vaḥ ǀ etát ǀ sám ǀ mádebhiḥ ǀ indriyébhiḥ ǀ pibadhvam ǁ

yat ǀ tṛtīyam ǀ savanam ǀ ratna-dheyam ǀ akṛṇudhvam ǀ su-apasyā ǀ su-hastāḥ ǀ
tat ǀ ṛbhavaḥ ǀ pari-siktam ǀ vaḥ ǀ etat ǀ sam ǀ madebhiḥ ǀ indriyebhiḥ ǀ pibadhvam ǁ

References

Maṇḍala · Sūkta · Ṛk
04.035.09
Aṣṭaka · Adhyāya · Varga · Ṛk
3.7.06.04
Maṇḍala · Anuvāka · Ṛk
04.04.031
Devatā देवता
Ṛbhus
Ṛṣi ऋषि
Vāmadeva Gautama
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 4.35.9

Interpretations

Sāyaṇa

हे सुहस्ताः शोभनहस्ता ऋभवो रत्नधेयं रमणीयसोमदानवद्यत्तृतीयं सवनमकृणुध्वं । प्रसाधितवन्तः । स्वपस्या शोभनकर्मेच्छया तदेतत्सवनं सवनगतं सोमद्रव्यं परिषिक्तं परिषेचनवद्वो युष्माकं सम्बन्धिभिर्मदेभिर्माद्यद्भिरिन्द्रियेभिरिन्द्रियैः सं पिबध्वं । यद्यपि वदनमेव पानसाधनं तथापि चक्षुः श्रोत्रादीनामपि दर्शनश्रवणादिना तृप्तिसद्भावात्पातृत्वमुपचर्यते ॥ ९ ॥