Ṛgveda · Maṇḍala 4 · Sūkta 36

Ṛk 4.36.9

Ṛbhus · Vāmadeva Gautama

The whole sūkta Link

Saṃhitā

इ॒ह प्र॒जामि॒ह र॒यिं ररा॑णा इ॒ह श्रवो॑ वी॒रव॑त्तक्षता नः ।
येन॑ व॒यं चि॒तये॒मात्य॒न्यांतं वाजं॑ चि॒त्रमृ॑भवो ददा नः ॥

इह प्रजाम् इह रयिं रराणा इह श्रवो वीरवत् तक्षता नः |
येन वयं चितयेमात्य् अन्यान् तं वाजं चित्रम् ऋभवो ददा नः ||

ihá prajā́mihá rayím rárāṇā ihá śrávo vīrávattakṣatā naḥ ǀ
yéna vayám citáyemā́tyanyā́ntám vā́jam citrámṛbhavo dadā naḥ ǁ

iha prajām iha rayiṃ rarāṇā iha śravo vīravat takṣatā naḥ |
yena vayaṃ citayemāty anyān taṃ vājaṃ citram ṛbhavo dadā naḥ ||

Padapāṭha

इ॒ह । प्र॒ऽजाम् । इ॒ह । र॒यिम् । ररा॑णाः । इ॒ह । श्रवः॑ । वी॒रऽव॑त् । त॒क्ष॒त॒ । नः॒ ।
येन॑ । व॒यम् । चि॒तये॑म । अति॑ । अ॒न्यान् । तम् । वाज॑म् । चि॒त्रम् । ऋ॒भ॒वः॒ । द॒द॒ । नः॒ ॥

इह । प्रऽजाम् । इह । रयिम् । रराणाः । इह । श्रवः । वीरऽवत् । तक्षत । नः ।
येन । वयम् । चितयेम । अति । अन्यान् । तम् । वाजम् । चित्रम् । ऋभवः । दद । नः ॥

ihá ǀ pra-jā́m ǀ ihá ǀ rayím ǀ rárāṇāḥ ǀ ihá ǀ śrávaḥ ǀ vīrá-vat ǀ takṣata ǀ naḥ ǀ
yéna ǀ vayám ǀ citáyema ǀ áti ǀ anyā́n ǀ tám ǀ vā́jam ǀ citrám ǀ ṛbhavaḥ ǀ dada ǀ naḥ ǁ

iha ǀ pra-jām ǀ iha ǀ rayim ǀ rarāṇāḥ ǀ iha ǀ śravaḥ ǀ vīra-vat ǀ takṣata ǀ naḥ ǀ
yena ǀ vayam ǀ citayema ǀ ati ǀ anyān ǀ tam ǀ vājam ǀ citram ǀ ṛbhavaḥ ǀ dada ǀ naḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
04.036.09
Aṣṭaka · Adhyāya · Varga · Ṛk
3.7.08.04
Maṇḍala · Anuvāka · Ṛk
04.04.040
Devatā देवता
Ṛbhus
Ṛṣi ऋषि
Vāmadeva Gautama
Chandas छन्दस्
Jagatī, Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 4.36.9

Interpretations

Sāyaṇa

नो अस्माकमिह यज्ञे रराणा रममानाः प्रजां पुत्रपौत्रादिरूपां तक्षत । सम्पादयत । इहैव यज्ञे रयिं च तक्षत । इहैव यज्ञे श्रवो यशो वीरवद्वीरैर्भृत्यादिभिरुपेतं तक्षत । किञ्च वयं येन वाजेनान्यानस्मत्समानति चितयेम । अतिक्रम्य ज्ञायेमहि । तं चित्रं चायनीयं वाजमन्नं हे ऋभवो नो दद । अस्मभ्यं दत्त ॥ ९ ॥