Ṛk 4.55.4
Saṃhitā
व्य॑र्य॒मा वरु॑णश्चेति॒ पंथा॑मि॒षस्पतिः॑ सुवि॒तं गा॒तुम॒ग्निः ।
इंद्रा॑विष्णू नृ॒वदु॒ षु स्तवा॑ना॒ शर्म॑ नो यंत॒मम॑व॒द्वरू॑थं ॥
व्य् अर्यमा वरुणश् चेति पन्थाम् इषस् पतिः सुवितं गातुम् अग्निः |
इन्द्राविष्णू नृवद् उ षु स्तवाना शर्म नो यन्तम् अमवद् वरूथम् ||
vyáryamā́ váruṇaśceti pánthāmiṣáspátiḥ suvitám gātúmagníḥ ǀ
índrāviṣṇū nṛvádu ṣú stávānā śárma no yantamámavadvárūtham ǁ
vy aryamā varuṇaś ceti panthām iṣas patiḥ suvitaṃ gātum agniḥ |
indrāviṣṇū nṛvad u ṣu stavānā śarma no yantam amavad varūtham ||
Padapāṭha
वि । अ॒र्य॒मा । वरु॑णः । चे॒ति॒ । पन्था॑म् । इ॒षः । पतिः॑ । सु॒वि॒तम् । गा॒तुम् । अ॒ग्निः ।
इन्द्रा॑विष्णू॒ इति॑ । नृ॒ऽवत् । ऊं॒ इति॑ । सु । स्तवा॑ना । शर्म॑ । नः॒ । य॒न्त॒म् । अम॑ऽवत् । वरू॑थम् ॥
वि । अर्यमा । वरुणः । चेति । पन्थाम् । इषः । पतिः । सुवितम् । गातुम् । अग्निः ।
इन्द्राविष्णू इति । नृऽवत् । ऊं इति । सु । स्तवाना । शर्म । नः । यन्तम् । अमऽवत् । वरूथम् ॥
ví ǀ aryamā́ ǀ váruṇaḥ ǀ ceti ǀ pánthām ǀ iṣáḥ ǀ pátiḥ ǀ suvitám ǀ gātúm ǀ agníḥ ǀ
índrāviṣṇū íti ǀ nṛ-vát ǀ ūṃ íti ǀ sú ǀ stávānā ǀ śárma ǀ naḥ ǀ yantam ǀ áma-vat ǀ várūtham ǁ
vi ǀ aryamā ǀ varuṇaḥ ǀ ceti ǀ panthām ǀ iṣaḥ ǀ patiḥ ǀ suvitam ǀ gātum ǀ agniḥ ǀ
indrāviṣṇū iti ǀ nṛ-vat ǀ ūṃ iti ǀ su ǀ stavānā ǀ śarma ǀ naḥ ǀ yantam ǀ ama-vat ǀ varūtham ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.055.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.06.04
- Maṇḍala · Anuvāka · Ṛk
- 04.05.068
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Gāyatrī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.