Ṛk 4.55.5
Saṃhitā
आ पर्व॑तस्य म॒रुता॒मवां॑सि दे॒वस्य॑ त्रा॒तुर॑व्रि॒ भग॑स्य ।
पात्पति॒र्जन्या॒दंह॑सो नो मि॒त्रो मि॒त्रिया॑दु॒त न॑ उरुष्येत् ॥
आ पर्वतस्य मरुताम् अवांसि देवस्य त्रातुर् अव्रि भगस्य |
पात् पतिर् जन्याद् अंहसो नो मित्रो मित्रियाद् उत न उरुष्येत् ||
ā́ párvatasya marútāmávāṃsi devásya trātúravri bhágasya ǀ
pā́tpátirjányādáṃhaso no mitró mitríyādutá na uruṣyet ǁ
ā parvatasya marutām avāṃsi devasya trātur avri bhagasya |
pāt patir janyād aṃhaso no mitro mitriyād uta na uruṣyet ||
Padapāṭha
आ । पर्व॑तस्य । म॒रुता॑म् । अवां॑सि । दे॒वस्य॑ । त्रा॒तुः । अ॒व्रि॒ । भग॑स्य ।
पात् । पतिः॑ । जन्या॑त् । अंह॑सः । नः॒ । मि॒त्रः । मि॒त्रिया॑त् । उ॒त । नः॒ । उ॒रु॒ष्ये॒त् ॥
आ । पर्वतस्य । मरुताम् । अवांसि । देवस्य । त्रातुः । अव्रि । भगस्य ।
पात् । पतिः । जन्यात् । अंहसः । नः । मित्रः । मित्रियात् । उत । नः । उरुष्येत् ॥
ā́ ǀ párvatasya ǀ marútām ǀ ávāṃsi ǀ devásya ǀ trātúḥ ǀ avri ǀ bhágasya ǀ
pā́t ǀ pátiḥ ǀ jányāt ǀ áṃhasaḥ ǀ naḥ ǀ mitráḥ ǀ mitríyāt ǀ utá ǀ naḥ ǀ uruṣyet ǁ
ā ǀ parvatasya ǀ marutām ǀ avāṃsi ǀ devasya ǀ trātuḥ ǀ avri ǀ bhagasya ǀ
pāt ǀ patiḥ ǀ janyāt ǀ aṃhasaḥ ǀ naḥ ǀ mitraḥ ǀ mitriyāt ǀ uta ǀ naḥ ǀ uruṣyet ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.055.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.06.05
- Maṇḍala · Anuvāka · Ṛk
- 04.05.069
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Gāyatrī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.