Ṛk 4.55.6
Saṃhitā
नू रो॑दसी॒ अहि॑ना बु॒ध्न्ये॑न स्तुवी॒त दे॑वी॒ अप्ये॑भिरि॒ष्टैः ।
स॒मु॒द्रं न सं॒चर॑णे सनि॒ष्यवो॑ घ॒र्मस्व॑रसो न॒द्यो॒३॒॑ अप॑ व्रन् ॥
नू रोदसी अहिना बुध्न्येन स्तुवीत देवी अप्येभिर् इष्टैः |
समुद्रं न संचरणे सनिष्यवो घर्मस्वरसो नद्यो अप व्रन् ||
nū́ rodasī áhinā budhnyéna stuvītá devī ápyebhiriṣṭáiḥ ǀ
samudrám ná saṃcáraṇe saniṣyávo gharmásvaraso nadyó ápa vran ǁ
nū rodasī ahinā budhnyena stuvīta devī apyebhir iṣṭaiḥ |
samudraṃ na saṃcaraṇe saniṣyavo gharmasvaraso nadyo apa vran ||
Padapāṭha
नु । रो॒द॒सी॒ इति॑ । अहि॑ना । बु॒ध्न्ये॑न । स्तु॒वी॒त । दे॒वी॒ इति॑ । अप्ये॑भिः । इ॒ष्टैः ।
स॒मु॒द्रम् । न । स॒म्ऽचर॑णे । स॒नि॒ष्यवः॑ । घ॒र्मऽस्व॑रसः । न॒द्यः॑ । अप॑ । व्र॒न् ॥
नु । रोदसी इति । अहिना । बुध्न्येन । स्तुवीत । देवी इति । अप्येभिः । इष्टैः ।
समुद्रम् । न । सम्ऽचरणे । सनिष्यवः । घर्मऽस्वरसः । नद्यः । अप । व्रन् ॥
nú ǀ rodasī íti ǀ áhinā ǀ budhnyéna ǀ stuvītá ǀ devī íti ǀ ápyebhiḥ ǀ iṣṭáiḥ ǀ
samudrám ǀ ná ǀ sam-cáraṇe ǀ saniṣyávaḥ ǀ gharmá-svarasaḥ ǀ nadyáḥ ǀ ápa ǀ vran ǁ
nu ǀ rodasī iti ǀ ahinā ǀ budhnyena ǀ stuvīta ǀ devī iti ǀ apyebhiḥ ǀ iṣṭaiḥ ǀ
samudram ǀ na ǀ sam-caraṇe ǀ saniṣyavaḥ ǀ gharma-svarasaḥ ǀ nadyaḥ ǀ apa ǀ vran ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.055.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.07.01
- Maṇḍala · Anuvāka · Ṛk
- 04.05.070
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Gāyatrī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.