Ṛgveda · Maṇḍala 3 · Sūkta 52

Ṛk 3.52.8

Indra · Viśvāmitra Gāthina

The whole sūkta Link

Saṃhitā

प्रति॑ धा॒ना भ॑रत॒ तूय॑मस्मै पुरो॒ळाशं॑ वी॒रत॑माय नृ॒णां ।
दि॒वेदि॑वे स॒दृशी॑रिंद्र॒ तुभ्यं॒ वर्धं॑तु त्वा सोम॒पेया॑य धृष्णो ॥

प्रति धाना भरत तूयम् अस्मै पुरोऌआशं वीरतमाय नृणाम् |
दिवे-दिवे सदृशीर् इन्द्र तुभ्यं वर्धन्तु त्वा सोमपेयाय धृष्णो ||

práti dhānā́ bharata tū́yamasmai puroḷā́śam vīrátamāya nṛṇā́m ǀ
divédive sadṛ́śīrindra túbhyam várdhantu tvā somapéyāya dhṛṣṇo ǁ

prati dhānā bharata tūyam asmai puroḷāśaṃ vīratamāya nṛṇām |
dive-dive sadṛśīr indra tubhyaṃ vardhantu tvā somapeyāya dhṛṣṇo ||

Padapāṭha

प्रति॑ । धा॒नाः । भ॒र॒त॒ । तूय॑म् । अ॒स्मै॒ । पु॒रो॒ळाश॑म् । वी॒रऽत॑माय । नृ॒णाम् ।
दि॒वेऽदि॑वे । स॒ऽदृशीः॑ । इ॒न्द्र॒ । तुभ्य॑म् । वर्ध॑न्तु । त्वा॒ । सो॒म॒ऽपेया॑य । धृ॒ष्णो॒ इति॑ ॥

प्रति । धानाः । भरत । तूयम् । अस्मै । पुरोळाशम् । वीरऽतमाय । नृणाम् ।
दिवेऽदिवे । सऽदृशीः । इन्द्र । तुभ्यम् । वर्धन्तु । त्वा । सोमऽपेयाय । धृष्णो इति ॥

práti ǀ dhānā́ḥ ǀ bharata ǀ tū́yam ǀ asmai ǀ puroḷā́śam ǀ vīrá-tamāya ǀ nṛṇā́m ǀ
divé-dive ǀ sa-dṛ́śīḥ ǀ indra ǀ túbhyam ǀ várdhantu ǀ tvā ǀ soma-péyāya ǀ dhṛṣṇo íti ǁ

prati ǀ dhānāḥ ǀ bharata ǀ tūyam ǀ asmai ǀ puroḷāśam ǀ vīra-tamāya ǀ nṛṇām ǀ
dive-dive ǀ sa-dṛśīḥ ǀ indra ǀ tubhyam ǀ vardhantu ǀ tvā ǀ soma-peyāya ǀ dhṛṣṇo iti ǁ

References

Maṇḍala · Sūkta · Ṛk
03.052.08
Aṣṭaka · Adhyāya · Varga · Ṛk
3.3.18.03
Maṇḍala · Anuvāka · Ṛk
03.04.099
Devatā देवता
Indra
Ṛṣi ऋषि
Viśvāmitra Gāthina
Chandas छन्दस्
Gāyatrī, Triṣṭubh, Jagatī
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.52.8

Interpretations

Sāyaṇa

यजमानोऽध्वर्य्वादीन्प्रति बृते । हे अध्वर्व्यादयः अस्मा इन्द्राय धानास्तूयं क्षिप्रं प्रति भरत । सम्पादयत । नृणां वीरतमायास्मा इन्द्राय पुरोडाह्सं च सम्पादयत । अथ प्रत्यक्षकृतः । हे धृष्णो शत्रूणामभिभवनशील हे इन्द्र सदृशीरेकविधाः स्तुतयस्तुभ्यं त्वदर्थं दिवे दिवे प्रतिदिवसमस्माभिः क्रियन्ते । ताः स्तुतयः सोमपेयाय सोमपानार्थं त्वां वर्धन्तु । उत्साहेन प्रवृद्धं कुर्वन्तु । सदृशीः । समानान्ययोश्चेति कञ्प्रत्ययः । टिड्ढाणञित्यादिन ङीप दृग्दृशवतुष्विति समानस्य सभावः ॥ ८ ॥