Ṛk 3.60.6
Saṃhitā
इंद्र॑ ऋभु॒मान्वाज॑वान्मत्स्वे॒ह नो॒ऽस्मिन्त्सव॑ने॒ शच्या॑ पुरुष्टुत ।
इ॒मानि॒ तुभ्यं॒ स्वस॑राणि येमिरे व्र॒ता दे॒वानां॒ मनु॑षश्च॒ धर्म॑भिः ॥
इन्द्र ऋभुमान् वाजवान् मत्स्वेह नो ऽस्मिन् सवने शच्या पुरुष्टुत |
इमानि तुभ्यं स्वसराणि येमिरे व्रता देवानाम् मनुषश् च धर्मभिः ||
índra ṛbhumā́nvā́javānmatsvehá no’smíntsávane śácyā puruṣṭuta ǀ
imā́ni túbhyam svásarāṇi yemire vratā́ devā́nām mánuṣaśca dhármabhiḥ ǁ
indra ṛbhumān vājavān matsveha no 'smin savane śacyā puruṣṭuta |
imāni tubhyaṃ svasarāṇi yemire vratā devānām manuṣaś ca dharmabhiḥ ||
Padapāṭha
इन्द्र॑ । ऋ॒भु॒ऽमान् । वाज॑ऽवान् । म॒त्स्व॒ । इ॒ह । नः॒ । अ॒स्मिन् । सव॑ने । शच्या॑ । पु॒रु॒ऽस्तु॒त॒ ।
इ॒मानि॑ । तुभ्य॑म् । स्वस॑राणि । ये॒मि॒रे॒ । व्र॒ता । दे॒वाना॑म् । मनु॑षः । च॒ । धर्म॑ऽभिः ॥
इन्द्र । ऋभुऽमान् । वाजऽवान् । मत्स्व । इह । नः । अस्मिन् । सवने । शच्या । पुरुऽस्तुत ।
इमानि । तुभ्यम् । स्वसराणि । येमिरे । व्रता । देवानाम् । मनुषः । च । धर्मऽभिः ॥
índra ǀ ṛbhu-mā́n ǀ vā́ja-vān ǀ matsva ǀ ihá ǀ naḥ ǀ asmín ǀ sávane ǀ śácyā ǀ puru-stuta ǀ
imā́ni ǀ túbhyam ǀ svásarāṇi ǀ yemire ǀ vratā́ ǀ devā́nām ǀ mánuṣaḥ ǀ ca ǀ dhárma-bhiḥ ǁ
indra ǀ ṛbhu-mān ǀ vāja-vān ǀ matsva ǀ iha ǀ naḥ ǀ asmin ǀ savane ǀ śacyā ǀ puru-stuta ǀ
imāni ǀ tubhyam ǀ svasarāṇi ǀ yemire ǀ vratā ǀ devānām ǀ manuṣaḥ ǀ ca ǀ dharma-bhiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.060.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.4.07.06
- Maṇḍala · Anuvāka · Ṛk
- 03.05.082
- Devatā देवता
- 1-4: Ṛbhus; 5-7: Indra, Ṛbhus
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.