Ṛgveda · Maṇḍala 3 · Sūkta 60

Ṛk 3.60.7

Ṛbhus · Indra, Ṛbhus · Viśvāmitra Gāthina

The whole sūkta Link

Saṃhitā

इंद्र॑ ऋ॒भुभि॑र्वा॒जिभि॑र्वा॒जय॑न्नि॒ह स्तोमं॑ जरि॒तुरुप॑ याहि य॒ज्ञियं॑ ।
श॒तं केते॑भिरिषि॒रेभि॑रा॒यवे॑ स॒हस्र॑णीथो अध्व॒रस्य॒ होम॑नि ॥

इन्द्र ऋभुभिर् वाजिभिर् वाजयन्न् इह स्तोमं जरितुर् उप याहि यज्ञियम् |
शतं केतेभिर् इषिरेभिर् आयवे सहस्रणीथो अध्वरस्य होमनि ||

índra ṛbhúbhirvājíbhirvājáyannihá stómam jaritúrúpa yāhi yajñíyam ǀ
śatám kétebhiriṣirébhirāyáve sahásraṇītho adhvarásya hómani ǁ

indra ṛbhubhir vājibhir vājayann iha stomaṃ jaritur upa yāhi yajñiyam |
śataṃ ketebhir iṣirebhir āyave sahasraṇītho adhvarasya homani ||

Padapāṭha

इन्द्र॑ । ऋ॒भुऽभिः॑ । वा॒जिऽभिः॑ । वा॒जय॑न् । इ॒ह । स्तोम॑म् । ज॒रि॒तुः । उप॑ । या॒हि॒ । य॒ज्ञिय॑म् ।
श॒तम् । केते॑भिः । इ॒षि॒रेभिः॑ । आ॒यवे॑ । स॒हस्र॑ऽनीथः । अ॒ध्व॒रस्य॑ । होम॑नि ॥

इन्द्र । ऋभुऽभिः । वाजिऽभिः । वाजयन् । इह । स्तोमम् । जरितुः । उप । याहि । यज्ञियम् ।
शतम् । केतेभिः । इषिरेभिः । आयवे । सहस्रऽनीथः । अध्वरस्य । होमनि ॥

índra ǀ ṛbhú-bhiḥ ǀ vājí-bhiḥ ǀ vājáyan ǀ ihá ǀ stómam ǀ jaritúḥ ǀ úpa ǀ yāhi ǀ yajñíyam ǀ
śatám ǀ kétebhiḥ ǀ iṣirébhiḥ ǀ āyáve ǀ sahásra-nīthaḥ ǀ adhvarásya ǀ hómani ǁ

indra ǀ ṛbhu-bhiḥ ǀ vāji-bhiḥ ǀ vājayan ǀ iha ǀ stomam ǀ jarituḥ ǀ upa ǀ yāhi ǀ yajñiyam ǀ
śatam ǀ ketebhiḥ ǀ iṣirebhiḥ ǀ āyave ǀ sahasra-nīthaḥ ǀ adhvarasya ǀ homani ǁ

References

Maṇḍala · Sūkta · Ṛk
03.060.07
Aṣṭaka · Adhyāya · Varga · Ṛk
3.4.07.07
Maṇḍala · Anuvāka · Ṛk
03.05.083
Devatā देवता
1-4: Ṛbhus; 5-7: Indra, Ṛbhus
Ṛṣi ऋषि
Viśvāmitra Gāthina
Chandas छन्दस्
Jagatī
Svara स्वरः
निषादः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.60.7

Interpretations

Sāyaṇa

हे इन्द्र वाजिभिर्वाजयुक्तैरृभुभिः सहितस्त्वं वाजयन् स्तोतुर्वाजमन्नं कुर्वाण इह यज्ञे यज्ञियं यज्ञार्हं जरितुः स्तोमं स्तोत्रमुपयाहि । आगच्छ । पुनः किंविशिष्टः । केतेभिः । केत्यते ज्ञायते सर्वमेभिरिति केशाः प्राज्ञामरुतः । तैः शतं शतसंख्याकैरिषिरेभिरिषिरैर्गमनकुशलैरश्वैः सहित आयवे मनुष्याय यजमानाय सहस्रनीथो बहुप्रकारनयनोपेतोऽध्वरस्य । न विद्यतेध्वरो हिंसा यस्य तादृशस्य सोमस्य होमनि होम आगच्छेति शेशः । वाजयन् । वाजं करोतीति णिच् । णाविष्थवदीतिष्ठवद्भावात्तुरिष्ठेमेयःस्विति टिलोपः । केतेभिः । कित ज्ञाने । घञ् । ञित्त्वादाद्युदात्तः ॥ ७ ॥