Ṛk 4.24.2
Saṃhitā
स वृ॑त्र॒हत्ये॒ हव्यः॒ स ईड्यः॒ स सुष्टु॑त॒ इंद्रः॑ स॒त्यरा॑धाः ।
स याम॒न्ना म॒घवा॒ मर्त्या॑य ब्रह्मण्य॒ते सुष्व॑ये॒ वरि॑वो धात् ॥
स वृत्रहत्ये हव्यः स ईड्यः स सुष्टुत इन्द्रः सत्यराधाः |
स यामन्न् आ मघवा मर्त्याय ब्रह्मण्यते सुष्वये वरिवो धात् ||
sá vṛtrahátye hávyaḥ sá ī́ḍyaḥ sá súṣṭuta índraḥ satyárādhāḥ ǀ
sá yā́mannā́ maghávā mártyāya brahmaṇyaté súṣvaye várivo dhāt ǁ
sa vṛtrahatye havyaḥ sa īḍyaḥ sa suṣṭuta indraḥ satyarādhāḥ |
sa yāmann ā maghavā martyāya brahmaṇyate suṣvaye varivo dhāt ||
Padapāṭha
सः । वृ॒त्र॒ऽहत्ये॑ । हव्यः॑ । सः । ईड्यः॑ । सः । सुऽस्तु॑तः । इन्द्रः॑ । स॒त्यऽरा॑धाः ।
सः । याम॑न् । आ । म॒घऽवा॑ । मर्त्या॑य । ब्र॒ह्म॒ण्य॒ते । सुस्व॑ये । वरि॑वः । धा॒त् ॥
सः । वृत्रऽहत्ये । हव्यः । सः । ईड्यः । सः । सुऽस्तुतः । इन्द्रः । सत्यऽराधाः ।
सः । यामन् । आ । मघऽवा । मर्त्याय । ब्रह्मण्यते । सुस्वये । वरिवः । धात् ॥
sáḥ ǀ vṛtra-hátye ǀ hávyaḥ ǀ sáḥ ǀ ī́ḍyaḥ ǀ sáḥ ǀ sú-stutaḥ ǀ índraḥ ǀ satyá-rādhāḥ ǀ
sáḥ ǀ yā́man ǀ ā́ ǀ maghá-vā ǀ mártyāya ǀ brahmaṇyaté ǀ súsvaye ǀ várivaḥ ǀ dhāt ǁ
saḥ ǀ vṛtra-hatye ǀ havyaḥ ǀ saḥ ǀ īḍyaḥ ǀ saḥ ǀ su-stutaḥ ǀ indraḥ ǀ satya-rādhāḥ ǀ
saḥ ǀ yāman ǀ ā ǀ magha-vā ǀ martyāya ǀ brahmaṇyate ǀ susvaye ǀ varivaḥ ǀ dhāt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.024.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.11.02
- Maṇḍala · Anuvāka · Ṛk
- 04.03.024
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.