Ṛk 4.24.4
Saṃhitā
क्र॒तू॒यंति॑ क्षि॒तयो॒ योग॑ उग्राशुषा॒णासो॑ मि॒थो अर्ण॑सातौ ।
सं यद्विशोऽव॑वृत्रंत यु॒ध्मा आदिन्नेम॑ इंद्रयंते अ॒भीके॑ ॥
क्रतूयन्ति क्षितयो योग उग्राशुषाणासो मिथो अर्णसातौ |
सं यद् विशो ऽववृत्रन्त युध्मा आद् इन् नेम इन्द्रयन्ते अभीके ||
kratūyánti kṣitáyo yóga ugrāśuṣāṇā́so mithó árṇasātau ǀ
sám yádvíśó’vavṛtranta yudhmā́ ā́dínnéma indrayante abhī́ke ǁ
kratūyanti kṣitayo yoga ugrāśuṣāṇāso mitho arṇasātau |
saṃ yad viśo 'vavṛtranta yudhmā ād in nema indrayante abhīke ||
Padapāṭha
क्र॒तु॒ऽयन्ति॑ । क्षि॒तयः॑ । योगे॑ । उ॒ग्र॒ । आ॒शु॒षा॒णासः॑ । मि॒थः । अर्ण॑ऽसातौ ।
सम् । यत् । विशः॑ । अव॑वृत्रन्त । यु॒ध्माः । आत् । इत् । नेमे॑ । इ॒न्द्र॒य॒न्ते॒ । अ॒भीके॑ ॥
क्रतुऽयन्ति । क्षितयः । योगे । उग्र । आशुषाणासः । मिथः । अर्णऽसातौ ।
सम् । यत् । विशः । अववृत्रन्त । युध्माः । आत् । इत् । नेमे । इन्द्रयन्ते । अभीके ॥
kratu-yánti ǀ kṣitáyaḥ ǀ yóge ǀ ugra ǀ āśuṣāṇā́saḥ ǀ mitháḥ ǀ árṇa-sātau ǀ
sám ǀ yát ǀ víśaḥ ǀ ávavṛtranta ǀ yudhmā́ḥ ǀ ā́t ǀ ít ǀ néme ǀ indrayante ǀ abhī́ke ǁ
kratu-yanti ǀ kṣitayaḥ ǀ yoge ǀ ugra ǀ āśuṣāṇāsaḥ ǀ mithaḥ ǀ arṇa-sātau ǀ
sam ǀ yat ǀ viśaḥ ǀ avavṛtranta ǀ yudhmāḥ ǀ āt ǀ it ǀ neme ǀ indrayante ǀ abhīke ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.024.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.11.04
- Maṇḍala · Anuvāka · Ṛk
- 04.03.026
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.