Ṛk 4.24.7
Saṃhitā
य इंद्रा॑य सु॒नव॒त्सोम॑म॒द्य पचा॑त्प॒क्तीरु॒त भृ॒ज्जाति॑ धा॒नाः ।
प्रति॑ मना॒योरु॒चथा॑नि॒ हर्यं॒तस्मिं॑दध॒द्वृष॑णं॒ शुष्म॒मिंद्रः॑ ॥
य इन्द्राय सुनवत् सोमम् अद्य पचात् पक्तीर् उत भृज्जाति धानाः |
प्रति मनायोर् उचथानि हर्यन् तस्मिन् दधद् वृषणं शुष्मम् इन्द्रः ||
yá índrāya sunávatsómamadyá pácātpaktī́rutá bhṛjjā́ti dhānā́ḥ ǀ
práti manāyórucáthāni háryantásmindadhadvṛ́ṣaṇam śúṣmamíndraḥ ǁ
ya indrāya sunavat somam adya pacāt paktīr uta bhṛjjāti dhānāḥ |
prati manāyor ucathāni haryan tasmin dadhad vṛṣaṇaṃ śuṣmam indraḥ ||
Padapāṭha
यः । इन्द्रा॑य । सु॒नव॑त् । सोम॑म् । अ॒द्य । पचा॑त् । प॒क्तीः । उ॒त । भृ॒ज्जाति॑ । धा॒नाः ।
प्रति॑ । म॒ना॒योः । उ॒चथा॑नि । हर्य॑न् । तस्मि॑न् । द॒ध॒त् । वृष॑णम् । शुष्म॑म् । इन्द्रः॑ ॥
यः । इन्द्राय । सुनवत् । सोमम् । अद्य । पचात् । पक्तीः । उत । भृज्जाति । धानाः ।
प्रति । मनायोः । उचथानि । हर्यन् । तस्मिन् । दधत् । वृषणम् । शुष्मम् । इन्द्रः ॥
yáḥ ǀ índrāya ǀ sunávat ǀ sómam ǀ adyá ǀ pácāt ǀ paktī́ḥ ǀ utá ǀ bhṛjjā́ti ǀ dhānā́ḥ ǀ
práti ǀ manāyóḥ ǀ ucáthāni ǀ háryan ǀ tásmin ǀ dadhat ǀ vṛ́ṣaṇam ǀ śúṣmam ǀ índraḥ ǁ
yaḥ ǀ indrāya ǀ sunavat ǀ somam ǀ adya ǀ pacāt ǀ paktīḥ ǀ uta ǀ bhṛjjāti ǀ dhānāḥ ǀ
prati ǀ manāyoḥ ǀ ucathāni ǀ haryan ǀ tasmin ǀ dadhat ǀ vṛṣaṇam ǀ śuṣmam ǀ indraḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.024.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.12.02
- Maṇḍala · Anuvāka · Ṛk
- 04.03.029
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.