Ṛk 4.24.8
Saṃhitā
य॒दा स॑म॒र्यं व्यचे॒दृघा॑वा दी॒र्घं यदा॒जिम॒भ्यख्य॑द॒र्यः ।
अचि॑क्रद॒द्वृष॑णं॒ पत्न्यच्छा॑ दुरो॒ण आ निशि॑तं सोम॒सुद्भिः॑ ॥
यदा समर्यं व्य् अचेद् ऋघावा दीर्घं यद् आजिम् अभ्य् अख्यद् अर्यः |
अचिक्रदद् वृषणम् पत्न्य् अच्छा दुरोण आ निशितं सोमसुद्भिः ||
yadā́ samaryám vyácedṛ́ghāvā dīrghám yádājímabhyákhyadaryáḥ ǀ
ácikradadvṛ́ṣaṇam pátnyácchā duroṇá ā́ níśitam somasúdbhiḥ ǁ
yadā samaryaṃ vy aced ṛghāvā dīrghaṃ yad ājim abhy akhyad aryaḥ |
acikradad vṛṣaṇam patny acchā duroṇa ā niśitaṃ somasudbhiḥ ||
Padapāṭha
य॒दा । स॒ऽम॒र्यम् । वि । अचे॑त् । ऋघा॑वा । दी॒र्घम् । यत् । आ॒जिम् । अ॒भि । अख्य॑त् । अ॒र्यः ।
अचि॑क्रदत् । वृष॑णम् । पत्नी॑ । अच्छ॑ । दु॒रो॒णे । आ । निऽशि॑तम् । सो॒म॒सुत्ऽभिः॑ ॥
यदा । सऽमर्यम् । वि । अचेत् । ऋघावा । दीर्घम् । यत् । आजिम् । अभि । अख्यत् । अर्यः ।
अचिक्रदत् । वृषणम् । पत्नी । अच्छ । दुरोणे । आ । निऽशितम् । सोमसुत्ऽभिः ॥
yadā́ ǀ sa-maryám ǀ ví ǀ ácet ǀ ṛ́ghāvā ǀ dīrghám ǀ yát ǀ ājím ǀ abhí ǀ ákhyat ǀ aryáḥ ǀ
ácikradat ǀ vṛ́ṣaṇam ǀ pátnī ǀ áccha ǀ duroṇé ǀ ā́ ǀ ní-śitam ǀ somasút-bhiḥ ǁ
yadā ǀ sa-maryam ǀ vi ǀ acet ǀ ṛghāvā ǀ dīrgham ǀ yat ǀ ājim ǀ abhi ǀ akhyat ǀ aryaḥ ǀ
acikradat ǀ vṛṣaṇam ǀ patnī ǀ accha ǀ duroṇe ǀ ā ǀ ni-śitam ǀ somasut-bhiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.024.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.12.03
- Maṇḍala · Anuvāka · Ṛk
- 04.03.030
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.