1.3१.३तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम । (१।३)
tad etad etasyām ṛcy adhyūḍhaṃ sāma |
1.4१.४तस्माद् ऋच्य् अध्यूढं साम गीयते । (१।४)
tasmād ṛcy adhyūḍhaṃ sāma gīyate |
2.1२.१अन्तरिक्षम् एवर्क् । (२।१)
2.3२.३तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम । (२।३)
tad etad etasyām ṛcy adhyūḍhaṃ sāma |
2.4२.४तस्माद् ऋच्यध्यूढं साम गीयते । (२।४)
tasmād ṛcyadhyūḍhaṃ sāma gīyate |
2.5२.५अन्तरिक्षम् एव सा । (२।५)
3.3३.३तद् एतद् एतस्याम् ऋच्यध्यूढं साम । (३।३)
tad etad etasyām ṛcyadhyūḍhaṃ sāma |
3.4३.४तस्माद् ऋच्यध्यूढं साम गीयते । (३।४)
tasmād ṛcyadhyūḍhaṃ sāma gīyate |
4.1४.१नक्षत्रान्य् एवर्क् । (४।१)
4.3४.३तद् एतद् एतस्याम् ऋच्यध्यूढं साम । (४।३)
tad etad etasyām ṛcyadhyūḍhaṃ sāma |
4.4४.४तस्माद् ऋच्यध्यूढं साम गीयते । (४।४)
tasmād ṛcyadhyūḍhaṃ sāma gīyate |
4.5४.५नक्षत्राण्य् एव सा । (४।५)
5.1५.१अथ यद् एतद् आदित्यस्य शुक्लं भाः सैवर्क् । (५।१)
atha yad etad ādityasya śuklaṃ bhāḥ saivark |
5.2५.२अथ यन् नीलं परःकृष्णं तत् साम । (५।२)
atha yan nīlaṃ paraḥkṛṣṇaṃ tat sāma |
5.3५.३तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम । (५।३)
tad etad etasyām ṛcy adhyūḍhaṃ sāma |
5.4५.४तस्माद् ऋच्य् अध्यूढं साम गीयते ॥ (५।४)
tasmād ṛcy adhyūḍhaṃ sāma gīyate ||
6.1६.१अथ यद् एवैतद् आदित्यस्य शुक्लं भाः सैव सा । (६।१)
atha yad evaitad ādityasya śuklaṃ bhāḥ saiva sā |
6.2६.२अथ यन् नीलं परःकृष्णं तद् अमः । (६।२)
atha yan nīlaṃ paraḥkṛṣṇaṃ tad amaḥ |
6.4६.४अथ य एषो ऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर् हिरण्यकेश आ प्रणखात् सर्व एव सुवर्णः ॥ (६।४)
atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate hiraṇyaśmaśrur hiraṇyakeśa ā praṇakhāt sarva eva suvarṇaḥ ||
7.1७.१तस्य यथा कप्यासं पुण्डरीकम् एवम् अक्षिणी । (७।१)
tasya yathā kapyāsaṃ puṇḍarīkam evam akṣiṇī |
7.3७.३स एष सर्वेभ्यः पाप्मभ्य उदितः । (७।३)
sa eṣa sarvebhyaḥ pāpmabhya uditaḥ |
7.4७.४उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद ॥ (७।४)
udeti ha vai sarvebhyaḥ pāpmabhyo ya evaṃ veda ||
8.1८.१तस्यर्क् च साम च गेष्णौ । (८।१)
tasyark ca sāma ca geṣṇau |
8.3८.३तस्मात् त्व् एव उद्गाता । (८।३)
8.5८.५स एष ये चामुष्मात् पराञ्चो लोकास् तेषां चेष्ट देवकामानां च । (८।५)
sa eṣa ye cāmuṣmāt parāñco lokās teṣāṃ ceṣṭa devakāmānāṃ ca |
Data courtesy of The Digital Corpus of Sanskrit.