1.1१.१न्यग्रोधफलम् अत आहरेति । (१।१)
nyagrodhaphalam ata āhareti |
1.5१.५किम् अत्र पश्यसीति । (१।५)
1.6१.६अण्व्य इवेमा धाना भगव इति । (१।६)
aṇvya ivemā dhānā bhagava iti |
1.7१.७आसाम् अङ्गैकां भिन्द्धीति । (१।७)
āsām aṅgaikāṃ bhinddhīti |
1.9१.९किम् अत्र पश्यसीति । (१।९)
2.1२.१तं होवाच यं वै सोम्यैतम् अणिमानं न निभालयस एतस्य वै सोम्यैषो ऽणिम्न एवं महान्यग्रोधस् तिष्ठति । (२।१)
taṃ hovāca yaṃ vai somyaitam aṇimānaṃ na nibhālayasa etasya vai somyaiṣo 'ṇimna evaṃ mahānyagrodhas tiṣṭhati |
2.2२.२श्रद्धत्स्व सोम्येति ॥ (२।२)
3.1३.१स य एषो ऽणिमैतद् आत्म्यम् इदं सर्वम् । (३।१)
sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam |
3.4३.४तत् त्वम् असि श्वेतकेतो इति । (३।४)
tat tvam asi śvetaketo iti |
3.5३.५भूय एव मा भगवान् विज्ञापयत्व् इति । (३।५)
bhūya eva mā bhagavān vijñāpayatv iti |
3.6३.६तथा सोम्येति होवाच ॥ (३।६)
Data courtesy of The Digital Corpus of Sanskrit.