1.1१.१अन्नम् अशितं त्रेधा विधीयते । (१।१)
annam aśitaṃ tredhā vidhīyate |
1.2१.२तस्य यः स्थविष्ठो धातुस् तत् पुरीषं भवति । (१।२)
tasya yaḥ sthaviṣṭho dhātus tat purīṣaṃ bhavati |
1.3१.३यो मध्यमस् तन् मांसम् । (१।३)
yo madhyamas tan māṃsam |
1.4१.४यो ऽणिष्ठस् तन् मनः ॥ (१।४)
2.1२.१आपः पीतास् त्रेधा विधीयन्ते । (२।१)
āpaḥ pītās tredhā vidhīyante |
2.2२.२तासां यः स्थविष्ठो धातुस् तन् मूत्रं भवति । (२।२)
tāsāṃ yaḥ sthaviṣṭho dhātus tan mūtraṃ bhavati |
2.3२.३यो मध्यमस् तल् लोहितम् । (२।३)
yo madhyamas tal lohitam |
2.4२.४यो ऽणिष्ठः स प्राणः ॥ (२।४)
3.1३.१तेजो ऽशितं त्रेधा विधीयते । (३।१)
tejo 'śitaṃ tredhā vidhīyate |
3.2३.२तस्य यः स्थविष्ठो धातुस् तद् अस्थि भवति । (३।२)
tasya yaḥ sthaviṣṭho dhātus tad asthi bhavati |
3.3३.३यो मध्यमः स मज्जा । (३।३)
3.4३.४यो ऽणिष्ठः सा वाक् ॥ (३।४)
4.1४.१अन्नमयं हि सोम्य मनः । (४।१)
annamayaṃ hi somya manaḥ |
4.4४.४भूय एव मा भगवान् विज्ञापयत्व् इति । (४।४)
bhūya eva mā bhagavān vijñāpayatv iti |
4.5४.५तथा सोम्येति होवाच ॥ (४।५)
Data courtesy of The Digital Corpus of Sanskrit.