1.1१.१त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यश् चैकितायनो दाल्भ्यः प्रवाहणो जैवलिर् इति । (१।१)
trayo hodgīthe kuśalā babhūvuḥ śilakaḥ śālāvatyaś caikitāyano dālbhyaḥ pravāhaṇo jaivalir iti |
1.2१.२ते होचुर् उद्गीथे वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति ॥ (१।२)
te hocur udgīthe vai kuśalāḥ smo hantodgīthe kathāṃ vadāma iti ||
2.1२.१तथेति ह समुपविविशुः । (२।१)
tatheti ha samupaviviśuḥ |
2.2२.२स ह प्रवाहणो जैवलिर् उवाच । (२।२)
sa ha pravāhaṇo jaivalir uvāca |
2.3२.३भगवन्ताव् अग्रे वदताम् । (२।३)
bhagavantāv agre vadatām |
2.4२.४ब्राह्मणयोर् वदतोर् वाचं श्रोष्यामीति ॥ (२।४)
brāhmaṇayor vadator vācaṃ śroṣyāmīti ||
3.1३.१स ह शिलकः शालावत्यश् चैकितायनं दाल्भ्यम् उवाच हन्त त्वा पृच्छानीति । (३।१)
sa ha śilakaḥ śālāvatyaś caikitāyanaṃ dālbhyam uvāca hanta tvā pṛcchānīti |
4.1४.१का साम्नो गतिर् इति । (४।१)
4.3४.३स्वरस्य का गतिर् इति । (४।३)
4.5४.५प्राणस्य का गतिर् इति । (४।५)
4.7४.७अन्नस्य का गतिर् इति । (४।७)
5.1५.१अपां का गतिर् इति । (५।१)
5.2५.२असौ लोक इति होवाच । (५।२)
5.3५.३अमुष्य लोकस्य का गतिर् इति । (५।३)
amuṣya lokasya kā gatir iti |
5.4५.४न स्वर्गं लोकम् अतिनयेद् इति होवाच । (५।४)
na svargaṃ lokam atinayed iti hovāca |
5.5५.५स्वर्गं वयं लोकं सामाभिसंस्थापयामः । (५।५)
svargaṃ vayaṃ lokaṃ sāmābhisaṃsthāpayāmaḥ |
5.6५.६स्वर्गसंस्तावं हि सामेति ॥ (५।६)
svargasaṃstāvaṃ hi sāmeti ||
6.1६.१तं ह शिलकः शालावत्यश् चैकितायनं दाल्भ्यम् उवाचाप्रतिष्ठितं वै किल ते दाल्भ्य साम । (६।१)
taṃ ha śilakaḥ śālāvatyaś caikitāyanaṃ dālbhyam uvācāpratiṣṭhitaṃ vai kila te dālbhya sāma |
6.2६.२यस् त्व् एतर्हि ब्रूयान् मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेद् इति ॥ (६।२)
yas tv etarhi brūyān mūrdhā te vipatiṣyatīti mūrdhā te vipated iti ||
7.1७.१हन्ताहम् एतद् भगवत्तो वेदानीति । (७।१)
hantāham etad bhagavatto vedānīti |
7.3७.३अमुष्य लोकस्य का गतिर् इति । (७।३)
amuṣya lokasya kā gatir iti |
7.4७.४अयं लोक इति होवाच । (७।४)
7.5७.५अस्य लोकस्य का गतिर् इति । (७।५)
asya lokasya kā gatir iti |
7.6७.६न प्रतिष्ठां लोकम् अतिनयेद् इति होवाच । (७।६)
na pratiṣṭhāṃ lokam atinayed iti hovāca |
7.7७.७प्रतिष्ठां वयं लोकं सामाभिसंस्थापयामः । (७।७)
pratiṣṭhāṃ vayaṃ lokaṃ sāmābhisaṃsthāpayāmaḥ |
7.8७.८प्रतिष्ठासंस्तावं हि सामेति ॥ (७।८)
pratiṣṭhāsaṃstāvaṃ hi sāmeti ||
8.1८.१तं ह प्रवाहणो जैवलिर् उवाच । (८।१)
taṃ ha pravāhaṇo jaivalir uvāca |
8.2८.२अन्तवद् वै किल ते शालावत्य साम । (८।२)
antavad vai kila te śālāvatya sāma |
8.3८.३यस् त्व् एतर्हि ब्रूयान् मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेद् इति । (८।३)
yas tv etarhi brūyān mūrdhā te vipatiṣyatīti mūrdhā te vipated iti |
8.4८.४हन्ताहम् एतद् भगवत्तो वेदानीति । (८।४)
hantāham etad bhagavatto vedānīti |
Data courtesy of The Digital Corpus of Sanskrit.