1.1१.१उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचर्यम् उवास । (१।१)
upakosalo ha vai kāmalāyanaḥ satyakāme jābāle brahmacaryam uvāsa |
1.2१.२तस्य ह द्वादश वार्षान्य् अग्नीन् परिचचार । (१।२)
tasya ha dvādaśa vārṣāny agnīn paricacāra |
1.3१.३स ह स्मान्यान् अन्तेवासिनः समावर्तयंस् तं ह स्मैव न समावर्तयति ॥ (१।३)
sa ha smānyān antevāsinaḥ samāvartayaṃs taṃ ha smaiva na samāvartayati ||
2.1२.१तं जायोवाच तप्तो ब्रह्मचारी कुशलम् अग्नीन् परिचचारीत् । (२।१)
taṃ jāyovāca tapto brahmacārī kuśalam agnīn paricacārīt |
2.2२.२मा त्वा अग्नयः परिप्रवोचन् । (२।२)
mā tvā agnayaḥ paripravocan |
2.3२.३प्रब्रूह्य् अस्मा इति । (२।३)
2.4२.४तस्मै हाप्रोच्यैव प्रवासांचक्रे ॥ (२।४)
tasmai hāprocyaiva pravāsāṃcakre ||
3.1३.१स ह व्याधिना अनशितुं दध्रे । (३।१)
sa ha vyādhinā anaśituṃ dadhre |
3.2३.२तम् आचार्यजाया उवाच ब्रह्मचारिन्न् अशान । (३।२)
tam ācāryajāyā uvāca brahmacārinn aśāna |
3.3३.३किंनु न अश्नासि इति । (३।३)
3.4३.४स ह उवाच बहव इमे ऽस्मिन् पुरुषे कामा नानात्यायाः । (३।४)
sa ha uvāca bahava ime 'smin puruṣe kāmā nānātyāyāḥ |
3.5३.५व्याधीभीः प्रतिपूर्णो ऽस्मि । (३।५)
vyādhībhīḥ pratipūrṇo 'smi |
4.1४.१अथ हाग्नयः समूदिरे । (४।१)
4.2४.२तप्तो ब्रह्मचारी कुशलं नः पर्यचारीत् । (४।२)
tapto brahmacārī kuśalaṃ naḥ paryacārīt |
4.3४.३हन्तास्मै प्रब्रवामेति तस्मै होचुः । (४।३)
hantāsmai prabravāmeti tasmai hocuḥ |
4.4४.४प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति ॥ (४।४)
prāṇo brahma kaṃ brahma khaṃ brahmeti ||
5.2५.२विजानाम्य् अहं यत् प्राणो ब्रह्म । (५।२)
vijānāmy ahaṃ yat prāṇo brahma |
5.3५.३कं च तु खं च न विजानामीति । (५।३)
kaṃ ca tu khaṃ ca na vijānāmīti |
5.5५.५यद् वाव कं तद् एव खम् । (५।५)
yad vāva kaṃ tad eva kham |
5.6५.६यद् एव खं तद् एव कम् इति । (५।६)
yad eva khaṃ tad eva kam iti |
5.7५.७प्राणं च हास्मै तद् आकाशं चोचुः ॥ (५।७)
prāṇaṃ ca hāsmai tad ākāśaṃ cocuḥ ||
Data courtesy of The Digital Corpus of Sanskrit.