छान्दोग्योपनिषद्Chāndogyopaniṣad

ChāUp, 7, 5

118 of 153 · 21 verses

Select a line for its word-by-word analysis.

1.1१.१

चित्तं वाव संकल्पाद् भूयः । (१।१)

cittaṃ vāva saṃkalpād bhūyaḥ |

1.2१.२

यदा वै चेतयते ऽथ संकल्पयते । (१।२)

yadā vai cetayate 'tha saṃkalpayate |

1.3१.३

अथ मनस्यति । (१।३)

atha manasyati |

1.4१.४

अथ वाचम् ईरयति । (१।४)

atha vācam īrayati |

1.5१.५

ताम् उ नाम्नीयूअति । (१।५)

tām u nāmnīyūati |

1.6१.६

नाम्नि मन्त्रा एकं भवन्ति । (१।६)

nāmni mantrā ekaṃ bhavanti |

1.7१.७

मन्त्रेषु कर्माणि ॥ (१।७)

mantreṣu karmāṇi ||

2.1२.१

तानि ह वा एतानि चित्तैकायनानि चित्तात्मानि चित्ते प्रतिष्ठितानि । (२।१)

tāni ha vā etāni cittaikāyanāni cittātmāni citte pratiṣṭhitāni |

2.2२.२

तस्माद् यद्य् अपि बहुविद् अचित्तो भवति नायम् अस्तीत्य् एवैनम् आहुः । (२।२)

tasmād yady api bahuvid acitto bhavati nāyam astīty evainam āhuḥ |

2.3२.३

यद् अयं वेद यद् वा अयं विद्वान् नेत्थम् अचित्तः स्याद् इति । (२।३)

yad ayaṃ veda yad vā ayaṃ vidvān nettham acittaḥ syād iti |

2.4२.४

अथ यद्य् अल्पविच् चित्तवान् भवति तस्मा एवोत शुश्रूषन्ते । (२।४)

atha yady alpavic cittavān bhavati tasmā evota śuśrūṣante |

2.5२.५

चित्तं ह्य् एवैषाम् एकायनम् । (२।५)

cittaṃ hy evaiṣām ekāyanam |

2.6२.६

चित्तम् आत्मा । (२।६)

cittam ātmā |

2.7२.७

चित्तं प्रतिष्ठा । (२।७)

cittaṃ pratiṣṭhā |

2.8२.८

चित्तम् उपास्स्वेति ॥ (२।८)

cittam upāssveti ||

3.1३.१

स यश् चित्तं ब्रह्मेत्य् उपास्ते । (३।१)

sa yaś cittaṃ brahmety upāste |

3.2३.२

चित्तान् वै स लोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितो ऽव्यथमानान् अव्यथमानो ऽभिसिध्यति । (३।२)

cittān vai sa lokān dhruvān dhruvaḥ pratiṣṭhitān pratiṣṭhito 'vyathamānān avyathamāno 'bhisidhyati |

3.3३.३

यावच् चित्तस्य गतं तत्रास्य यथाकामचारो भवति यश् चित्तं ब्रह्मेत्य् उपास्ते । (३।३)

yāvac cittasya gataṃ tatrāsya yathākāmacāro bhavati yaś cittaṃ brahmety upāste |

3.4३.४

अस्ति भगवश् चित्ताद् भूय इति । (३।४)

asti bhagavaś cittād bhūya iti |

3.5३.५

चित्ताद् वाव भूयो ऽस्तीति । (३।५)

cittād vāva bhūyo 'stīti |

3.6३.६

तन् मे भगवान् ब्रवीत्व् इति ॥ (३।६)

tan me bhagavān bravītv iti ||

Data courtesy of The Digital Corpus of Sanskrit.

ChāUp, 7, 5

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit