1.2१.२उपकोसलैषा सोम्य ते ऽस्मद्विद्यात्मविद्या च । (१।२)
upakosalaiṣā somya te 'smadvidyātmavidyā ca |
1.3१.३आचार्यस् तु ते गतिं वक्तेति । (१।३)
ācāryas tu te gatiṃ vakteti |
1.4१.४आजगाम हास्याचार्यः । (१।४)
1.5१.५तम् आचार्यो ऽभ्युवादोपकोसल ३ इति ॥ (१।५)
tam ācāryo 'bhyuvādopakosala 3 iti ||
2.1२.१भगव इति ह प्रतिशुश्राव । (२।१)
bhagava iti ha pratiśuśrāva |
2.2२.२ब्रह्मविद इव सोम्य मुखं भाति । (२।२)
brahmavida iva somya mukhaṃ bhāti |
2.3२.३को नु त्वानुशशासेति । (२।३)
2.4२.४को नु मानुशिश्याद् भो इतीहापेव निह्नुते । (२।४)
ko nu mānuśiśyād bho itīhāpeva nihnute |
2.5२.५इमे नूनम् ईदृशा अन्यादृशा इतीहाग्नीन् अभ्यूदे । (२।५)
ime nūnam īdṛśā anyādṛśā itīhāgnīn abhyūde |
2.6२.६किंनु सोम्य किल ते ऽवोचन्न् इति ॥ (२।६)
kiṃnu somya kila te 'vocann iti ||
3.1३.१इदम् इति ह प्रतिजज्ञे । (३।१)
3.2३.२लोकान् वाव किल सोम्य ते ऽवोचन् । (३।२)
lokān vāva kila somya te 'vocan |
3.3३.३अहं तु ते तद् वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त एवम् एवंविदि पापं कर्म न श्लिष्यत इति । (३।३)
ahaṃ tu te tad vakṣyāmi yathā puṣkarapalāśa āpo na śliṣyanta evam evaṃvidi pāpaṃ karma na śliṣyata iti |
3.4३.४ब्रवीतु मे भगवान् इति । (३।४)
bravītu me bhagavān iti |
Data courtesy of The Digital Corpus of Sanskrit.