1.1१.१य एष स्वप्ने महीयमानश् चरत्य् एष आत्मेति होवाच । (१।१)
ya eṣa svapne mahīyamānaś caraty eṣa ātmeti hovāca |
1.2१.२एतद् अमृतम् अभयम् एतद् ब्रह्मेति । (१।२)
etad amṛtam abhayam etad brahmeti |
1.3१.३स ह शान्तहृदयः प्रवव्राज । (१।३)
sa ha śāntahṛdayaḥ pravavrāja |
1.4१.४स हाप्राप्यैव देवान् एतद् भयं ददर्श । (१।४)
sa hāprāpyaiva devān etad bhayaṃ dadarśa |
1.5१.५तद् यद्य् अपीदं शरीरम् अन्धं भवत्य् अनन्धः स भवति यदि स्रामम् अस्रामः । (१।५)
tad yady apīdaṃ śarīram andhaṃ bhavaty anandhaḥ sa bhavati yadi srāmam asrāmaḥ |
1.6१.६नैवैषो ऽस्य दोषेण दुष्यति ॥ (१।६)
naivaiṣo 'sya doṣeṇa duṣyati ||
2.1२.१न वधेनास्य हन्यते । (२।१)
2.2२.२नास्य स्राम्येण स्रामः । (२।२)
2.3२.३घ्नन्ति त्व् एवैनम् । (२।३)
2.5२.५अप्रियवेत्तेव भवति । (२।५)
2.6२.६अपि रोदितीव नाहम् अत्र भोग्यं पश्यामीति ॥ (२।६)
api roditīva nāham atra bhogyaṃ paśyāmīti ||
3.1३.१स समित्पाणिः पुनर् एयाय । (३।१)
sa samitpāṇiḥ punar eyāya |
3.2३.२तं ह प्रजापतिर् उवाच । (३।२)
taṃ ha prajāpatir uvāca |
3.3३.३मघवन् यच्छान्तहृदयः प्राव्राजीः किम् इच्छन् पुनर् आगम इति । (३।३)
maghavan yacchāntahṛdayaḥ prāvrājīḥ kim icchan punar āgama iti |
3.5३.५तद् यद्य् अपीदं भगवः शरीरम् अन्धं भवत्य् अनन्धः स भवति यदि स्रामम् अस्रामः । (३।५)
tad yady apīdaṃ bhagavaḥ śarīram andhaṃ bhavaty anandhaḥ sa bhavati yadi srāmam asrāmaḥ |
3.6३.६नैवैषो ऽस्य दोषेण दुष्यति ॥ (३।६)
naivaiṣo 'sya doṣeṇa duṣyati ||
4.1४.१न वधेनास्य हन्यते । (४।१)
4.2४.२नास्य स्राम्येण स्रामः । (४।२)
4.3४.३घ्नन्ति त्व् इवैनम् । (४।३)
4.5४.५अप्रियवेत्तेव भवति । (४।५)
4.7४.७नाहम् अत्र भोग्यं पश्यामीति । (४।७)
nāham atra bhogyaṃ paśyāmīti |
4.8४.८एवम् एवैष मघवन्न् इति होवाच । (४।८)
evam evaiṣa maghavann iti hovāca |
4.9४.९एतं त्व् एव ते भूयो ऽनुव्याख्यास्यामि । (४।९)
etaṃ tv eva te bhūyo 'nuvyākhyāsyāmi |
4.10४.१०वसापराणि द्वात्रिंशतं वर्षाणीति । (४।१०)
vasāparāṇi dvātriṃśataṃ varṣāṇīti |
4.11४.११स हापराणि द्वात्रिंशतं वर्षाण्युवास । (४।११)
sa hāparāṇi dvātriṃśataṃ varṣāṇyuvāsa |
Data courtesy of The Digital Corpus of Sanskrit.