1.1१.१संकल्पो वाव मनसो भूयान् । (१।१)
saṃkalpo vāva manaso bhūyān |
1.2१.२यदा वै संकल्पयते ऽथ मनस्यति । (१।२)
yadā vai saṃkalpayate 'tha manasyati |
1.4१.४ताम् उ नाम्नीयूअति । (१।४)
1.5१.५नाम्नि मन्त्रा एकं भवन्ति । (१।५)
nāmni mantrā ekaṃ bhavanti |
1.6१.६मन्त्रेषु कर्माणि ॥ (१।६)
2.1२.१तानि ह वा एतानि संकल्पैकायनानि संकल्पात्मकानि संकल्पे प्रतिष्ठितानि । (२।१)
tāni ha vā etāni saṃkalpaikāyanāni saṃkalpātmakāni saṃkalpe pratiṣṭhitāni |
2.2२.२समकॢपतां द्यावापृथिवी । (२।२)
samakḷpatāṃ dyāvāpṛthivī |
2.3२.३समकल्पेतां वायुश् चाकाशं च । (२।३)
samakalpetāṃ vāyuś cākāśaṃ ca |
2.4२.४समकल्पन्तापश् च तेजश् च । (२।४)
samakalpantāpaś ca tejaś ca |
2.5२.५तेषां संकॢप्त्यै वर्षं संकल्पते । (२।५)
teṣāṃ saṃkḷptyai varṣaṃ saṃkalpate |
2.6२.६वर्षस्य संकॢप्त्या अन्नं संकल्पते । (२।६)
varṣasya saṃkḷptyā annaṃ saṃkalpate |
2.7२.७अन्नस्य संकॢप्त्यै प्राणाः संकल्पन्ते । (२।७)
annasya saṃkḷptyai prāṇāḥ saṃkalpante |
2.8२.८प्राणानां संकॢप्त्यै मन्त्राः संकल्पन्ते । (२।८)
prāṇānāṃ saṃkḷptyai mantrāḥ saṃkalpante |
2.9२.९मन्त्राणां संकॢप्त्यै कर्माणि संकल्पन्ते । (२।९)
mantrāṇāṃ saṃkḷptyai karmāṇi saṃkalpante |
2.10२.१०कर्मणां संकॢप्त्यै लोकः संकल्पते । (२।१०)
karmaṇāṃ saṃkḷptyai lokaḥ saṃkalpate |
2.11२.११लोकस्य संकॢप्त्यै सर्वं संकल्पते । (२।११)
lokasya saṃkḷptyai sarvaṃ saṃkalpate |
3.1३.१स यः संकल्पं ब्रह्मेत्य् उपास्ते । (३।१)
sa yaḥ saṃkalpaṃ brahmety upāste |
3.2३.२कॢप्तान् वै स लोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितो ऽव्यथमानान् अव्यथमानो ऽभिसिध्यति । (३।२)
kḷptān vai sa lokān dhruvān dhruvaḥ pratiṣṭhitān pratiṣṭhito 'vyathamānān avyathamāno 'bhisidhyati |
3.3३.३यावत् संकल्पस्य गतं तत्रास्य यथाकामचारो भवति यः संकल्पं ब्रह्मेत्य् उपास्ते । (३।३)
yāvat saṃkalpasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ saṃkalpaṃ brahmety upāste |
3.4३.४अस्ति भगवः संकल्पाद् भूय इति । (३।४)
asti bhagavaḥ saṃkalpād bhūya iti |
3.5३.५संकल्पाद् वाव भूयो ऽस्तीति । (३।५)
saṃkalpād vāva bhūyo 'stīti |
3.6३.६तन् मे भगवान् ब्रवीत्व् इति ॥ (३।६)
tan me bhagavān bravītv iti ||
Data courtesy of The Digital Corpus of Sanskrit.