छान्दोग्योपनिषद्Chāndogyopaniṣad

ChāUp, 5, 1

74 of 153 · 50 verses

Select a line for its word-by-word analysis.

1.1१.१

यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश् च ह वै श्रेष्ठश् च भवति । (१।१)

yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaś ca ha vai śreṣṭhaś ca bhavati |

1.2१.२

प्राणो वाव ज्येष्ठश् च श्रेष्ठश् च ॥ (१।२)

prāṇo vāva jyeṣṭhaś ca śreṣṭhaś ca ||

2.1२.१

यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति । (२।१)

yo ha vai vasiṣṭhaṃ veda vasiṣṭho ha svānāṃ bhavati |

2.2२.२

वाग् वाव वसिष्ठः ॥ (२।२)

vāg vāva vasiṣṭhaḥ ||

3.1३.१

यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्य् अस्मिंश् च लोके ऽमुष्मिंश् च । (३।१)

yo ha vai pratiṣṭhāṃ veda prati ha tiṣṭhaty asmiṃś ca loke 'muṣmiṃś ca |

3.2३.२

चक्षुर् वाव प्रतिष्ठा ॥ (३।२)

cakṣur vāva pratiṣṭhā ||

4.1४.१

यो ह वै संपदं वेद सं हास्मै कामाः पद्यन्ते दैवाश् च मानुषाश् च । (४।१)

yo ha vai saṃpadaṃ veda saṃ hāsmai kāmāḥ padyante daivāś ca mānuṣāś ca |

4.2४.२

श्रोत्रं वाव संपत् ॥ (४।२)

śrotraṃ vāva saṃpat ||

5.1५.१

यो ह वा आयतनं वेदायतनं ह स्वानां भवति । (५।१)

yo ha vā āyatanaṃ vedāyatanaṃ ha svānāṃ bhavati |

5.2५.२

मनो ह वा आयतनम् ॥ (५।२)

mano ha vā āyatanam ||

6.1६.१

अथ ह प्राणा अहंश्रेयसि व्यूदिरे । (६।१)

atha ha prāṇā ahaṃśreyasi vyūdire |

6.2६.२

अहं श्रेयान् अस्म्य् अहं श्रेयान् अस्मीति ॥ (६।२)

ahaṃ śreyān asmy ahaṃ śreyān asmīti ||

7.1७.१

ते ह प्राणाः प्रजापतिं पितरम् एत्योचुः भगवन् को नः श्रेष्ठ इति । (७।१)

te ha prāṇāḥ prajāpatiṃ pitaram etyocuḥ bhagavan ko naḥ śreṣṭha iti |

7.2७.२

तान् होवाच । (७।२)

tān hovāca |

7.3७.३

यस्मिन् व उत्क्रान्ते शरीरं पापिष्ठतरम् इव दृश्येत स वः श्रेष्ठ इति ॥ (७।३)

yasmin va utkrānte śarīraṃ pāpiṣṭhataram iva dṛśyeta sa vaḥ śreṣṭha iti ||

8.1८.१

सा ह वाग् उच्चक्राम । (८।१)

sā ha vāg uccakrāma |

8.2८.२

सा संवत्सरं प्रोष्य पर्येत्योवाच । (८।२)

sā saṃvatsaraṃ proṣya paryetyovāca |

8.3८.३

कथम् अशकतर्ते मज् जीवितुम् इति । (८।३)

katham aśakatarte maj jīvitum iti |

8.4८.४

यथा कला अवदन्तः प्राणन्तः प्राणेन पश्यन्तश् चक्षुषा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवम् इति । (८।४)

yathā kalā avadantaḥ prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti |

8.5८.५

प्रविवेश ह वाक् ॥ (८।५)

praviveśa ha vāk ||

9.1९.१

चक्षुर् होच्चक्राम । (९।१)

cakṣur hoccakrāma |

9.2९.२

तत् संवत्सरं प्रोष्य पर्येत्योवाच । (९।२)

tat saṃvatsaraṃ proṣya paryetyovāca |

9.3९.३

कथम् अशकतर्ते मज् जीवितुम् इति । (९।३)

katham aśakatarte maj jīvitum iti |

9.4९.४

यथान्धा अपश्यन्तः प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवम् इति । (९।४)

yathāndhā apaśyantaḥ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti |

9.5९.५

प्रविवेश ह चक्षुः ॥ (९।५)

praviveśa ha cakṣuḥ ||

10.1१०.१

श्रोत्रं होच्चक्राम । (१०।१)

śrotraṃ hoccakrāma |

10.2१०.२

तत् संवत्सरं प्रोष्य पर्येत्योवाच कथम् अशकतर्ते मज् जीवितुम् इति । (१०।२)

tat saṃvatsaraṃ proṣya paryetyovāca katham aśakatarte maj jīvitum iti |

10.3१०.३

यथा बधिरा अशृण्वन्तः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश् चक्षुषा ध्यायन्तो मनसैवम् इति । (१०।३)

yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā dhyāyanto manasaivam iti |

10.4१०.४

प्रविवेश ह श्रोत्रम् ॥ (१०।४)

praviveśa ha śrotram ||

11.1११.१

मनो होच्चक्राम । (११।१)

mano hoccakrāma |

11.2११.२

तत् संवत्सरं प्रोष्य पर्येत्योवाच । (११।२)

tat saṃvatsaraṃ proṣya paryetyovāca |

11.3११.३

कथम् अशकतर्ते मज् जीवितुम् इति । (११।३)

katham aśakatarte maj jīvitum iti |

11.4११.४

यथा बाला अमनसः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश् चक्षुषा शृण्वन्तः श्रोत्रेणैवम् इति । (११।४)

yathā bālā amanasaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇaivam iti |

11.5११.५

प्रविवेश ह मनः ॥ (११।५)

praviveśa ha manaḥ ||

12.1१२.१

अथ ह प्राण उच्चिक्रमिषन् स यथा सुहयः पड्वीशशङ्कून् संखिदेद् एवम् इतरान् प्राणान् समखिदत् । (१२।१)

atha ha prāṇa uccikramiṣan sa yathā suhayaḥ paḍvīśaśaṅkūn saṃkhided evam itarān prāṇān samakhidat |

12.2१२.२

तं हाभिसमेत्योचुः । (१२।२)

taṃ hābhisametyocuḥ |

12.3१२.३

भगवन्न् एधि । (१२।३)

bhagavann edhi |

12.4१२.४

त्वं नः श्रेष्ठो ऽसि । (१२।४)

tvaṃ naḥ śreṣṭho 'si |

12.5१२.५

मोत्क्रमीर् इति ॥ (१२।५)

motkramīr iti ||

13.1१३.१

अथ हैनं वाग् उवाच । (१३।१)

atha hainaṃ vāg uvāca |

13.2१३.२

यद् अहं वसिष्ठो ऽस्मि त्वं तद्वसिष्ठो ऽसीति । (१३।२)

yad ahaṃ vasiṣṭho 'smi tvaṃ tadvasiṣṭho 'sīti |

13.3१३.३

अथ हैनं चक्षुर् उवाच । (१३।३)

atha hainaṃ cakṣur uvāca |

13.4१३.४

यद् अहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठासीति ॥ (१३।४)

yad ahaṃ pratiṣṭhāsmi tvaṃ tatpratiṣṭhāsīti ||

14.1१४.१

अथ हैनं श्रोत्रम् उवाच । (१४।१)

atha hainaṃ śrotram uvāca |

14.2१४.२

यद् अहं संपद् अस्मि त्वं तत्संपद् असीति । (१४।२)

yad ahaṃ saṃpad asmi tvaṃ tatsaṃpad asīti |

14.3१४.३

अथ हैनं मन उवाच । (१४।३)

atha hainaṃ mana uvāca |

14.4१४.४

यद् अहम् आयतनम् अस्मि त्वं तदायतनम् असीति ॥ (१४।४)

yad aham āyatanam asmi tvaṃ tadāyatanam asīti ||

15.1१५.१

न वै वाचो न चक्षूंषि न श्रोत्राणि न मनांसीत्य् आचक्षते । (१५।१)

na vai vāco na cakṣūṃṣi na śrotrāṇi na manāṃsīty ācakṣate |

15.2१५.२

प्राणा इत्य् एवाचक्षते । (१५।२)

prāṇā ity evācakṣate |

15.3१५.३

प्राणो ह्य् एवैतानि सर्वाणि भवति ॥ (१५।३)

prāṇo hy evaitāni sarvāṇi bhavati ||

Data courtesy of The Digital Corpus of Sanskrit.

ChāUp, 5, 1

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit