Ṛgveda · Maṇḍala 3 · Sūkta 40

Ṛk 3.40.9

Indra · Viśvāmitra Gāthina

The whole sūkta Link

Saṃhitā

यदं॑त॒रा प॑रा॒वत॑मर्वा॒वतं॑ च हू॒यसे॑ ।
इंद्रे॒ह तत॒ आ ग॑हि ॥

यद् अन्तरा परावतम् अर्वावतं च हूयसे |
इन्द्रेह तत आ गहि ||

yádantarā́ parāvátamarvāvátam ca hūyáse ǀ
índrehá táta ā́ gahi ǁ

yad antarā parāvatam arvāvataṃ ca hūyase |
indreha tata ā gahi ||

Padapāṭha

यत् । अ॒न्त॒रा । प॒रा॒ऽवत॑म् । अ॒र्वा॒ऽवत॑म् । च॒ । हू॒यसे॑ ।
इन्द्र॑ । इ॒ह । ततः॑ । आ । ग॒हि॒ ॥

यत् । अन्तरा । पराऽवतम् । अर्वाऽवतम् । च । हूयसे ।
इन्द्र । इह । ततः । आ । गहि ॥

yát ǀ antarā́ ǀ parā-vátam ǀ arvā-vátam ǀ ca ǀ hūyáse ǀ
índra ǀ ihá ǀ tátaḥ ǀ ā́ ǀ gahi ǁ

yat ǀ antarā ǀ parā-vatam ǀ arvā-vatam ǀ ca ǀ hūyase ǀ
indra ǀ iha ǀ tataḥ ǀ ā ǀ gahi ǁ

References

Maṇḍala · Sūkta · Ṛk
03.040.09
Aṣṭaka · Adhyāya · Varga · Ṛk
3.3.02.04
Maṇḍala · Anuvāka · Ṛk
03.04.018
Devatā देवता
Indra
Ṛṣi ऋषि
Viśvāmitra Gāthina
Chandas छन्दस्
Gāyatrī
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.40.9

Interpretations

Sāyaṇa

हे इन्द्र यद्यस्मिन्परावतमतिविप्रकृष्टस्य देशस्यार्वावतं सन्निकृष्टस्य देशस्य चान्तरा तयोर्मध्यदेशे हूयसे सम्यगिज्यसे ततस्तस्माद्देशादिहास्मिन्यज्ञ आ गहि । सोमपानार्थमागच्छ । परावतं अर्वावतं । अन्तरान्तरेण युक्ते । पा. २-३-४ । इति द्वितीया । ततः । पञ्चम्यास्तसिल् । लित्स्वरः ॥ ९ ॥