Ṛk 3.58.2
Saṃhitā
सु॒युग्व॑हंति॒ प्रति॑ वामृ॒तेनो॒र्ध्वा भ॑वंति पि॒तरे॑व॒ मेधाः॑ ।
जरे॑थाम॒स्मद्वि प॒णेर्म॑नी॒षां यु॒वोरव॑श्चकृ॒मा या॑तम॒र्वाक् ॥
सुयुग् वहन्ति प्रति वाम् ऋतेनोर्ध्वा भवन्ति पितरेव मेधाः |
जरेथाम् अस्मद् वि पणेर् मनीषां युवोर् अवश् चकृमा यातम् अर्वाक् ||
suyúgvahanti práti vāmṛténordhvā́ bhavanti pitáreva médhāḥ ǀ
járethāmasmádví paṇérmanīṣā́m yuvórávaścakṛmā́ yātamarvā́k ǁ
suyug vahanti prati vām ṛtenordhvā bhavanti pitareva medhāḥ |
jarethām asmad vi paṇer manīṣāṃ yuvor avaś cakṛmā yātam arvāk ||
Padapāṭha
सु॒ऽयुक् । व॒ह॒न्ति॒ । प्रति॑ । वा॒म् । ऋ॒तेन॑ । ऊ॒र्ध्वाः । भ॒व॒न्ति॒ । पि॒तरा॑ऽइव । मेधाः॑ ।
जरे॑थाम् । अ॒स्मत् । वि । प॒णेः । म॒नी॒षाम् । यु॒वोः । अवः॑ । च॒कृ॒म॒ । आ । या॒त॒म् । अ॒र्वाक् ॥
सुऽयुक् । वहन्ति । प्रति । वाम् । ऋतेन । ऊर्ध्वाः । भवन्ति । पितराऽइव । मेधाः ।
जरेथाम् । अस्मत् । वि । पणेः । मनीषाम् । युवोः । अवः । चकृम । आ । यातम् । अर्वाक् ॥
su-yúk ǀ vahanti ǀ práti ǀ vām ǀ ṛténa ǀ ūrdhvā́ḥ ǀ bhavanti ǀ pitárā-iva ǀ médhāḥ ǀ
járethām ǀ asmát ǀ ví ǀ paṇéḥ ǀ manīṣā́m ǀ yuvóḥ ǀ ávaḥ ǀ cakṛma ǀ ā́ ǀ yātam ǀ arvā́k ǁ
su-yuk ǀ vahanti ǀ prati ǀ vām ǀ ṛtena ǀ ūrdhvāḥ ǀ bhavanti ǀ pitarā-iva ǀ medhāḥ ǀ
jarethām ǀ asmat ǀ vi ǀ paṇeḥ ǀ manīṣām ǀ yuvoḥ ǀ avaḥ ǀ cakṛma ǀ ā ǀ yātam ǀ arvāk ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.058.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.4.03.02
- Maṇḍala · Anuvāka · Ṛk
- 03.05.060
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.