Ṛk 3.58.5
Saṃhitā
ति॒रः पु॒रू चि॑दश्विना॒ रजां॑स्यांगू॒षो वां॑ मघवाना॒ जने॑षु ।
एह या॑तं प॒थिभि॑र्देव॒यानै॒र्दस्रा॑वि॒मे वां॑ नि॒धयो॒ मधू॑नां ॥
तिरः पुरू चिद् अश्विना रजांस्य् आङ्गूषो वाम् मघवाना जनेषु |
एह यातम् पथिभिर् देवयानैर् दस्राव् इमे वां निधयो मधूनाम् ||
tiráḥ purū́ cidaśvinā rájāṃsyāṅgūṣó vām maghavānā jáneṣu ǀ
éhá yātam pathíbhirdevayā́nairdásrāvimé vām nidháyo mádhūnām ǁ
tiraḥ purū cid aśvinā rajāṃsy āṅgūṣo vām maghavānā janeṣu |
eha yātam pathibhir devayānair dasrāv ime vāṃ nidhayo madhūnām ||
Padapāṭha
ति॒रः । पु॒रु । चि॒त् । अ॒श्वि॒ना॒ । रजां॑सि । आ॒ङ्गू॒षः । वा॒म् । म॒घ॒ऽवा॒ना॒ । जने॑षु ।
आ । इ॒ह । या॒त॒म् । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ । दस्रौ॑ । इ॒मे । वा॒म् । नि॒ऽधयः॑ । मधू॑नाम् ॥
तिरः । पुरु । चित् । अश्विना । रजांसि । आङ्गूषः । वाम् । मघऽवाना । जनेषु ।
आ । इह । यातम् । पथिऽभिः । देवऽयानैः । दस्रौ । इमे । वाम् । निऽधयः । मधूनाम् ॥
tiráḥ ǀ purú ǀ cit ǀ aśvinā ǀ rájāṃsi ǀ āṅgūṣáḥ ǀ vām ǀ magha-vānā ǀ jáneṣu ǀ
ā́ ǀ ihá ǀ yātam ǀ pathí-bhiḥ ǀ deva-yā́naiḥ ǀ dásrau ǀ imé ǀ vām ǀ ni-dháyaḥ ǀ mádhūnām ǁ
tiraḥ ǀ puru ǀ cit ǀ aśvinā ǀ rajāṃsi ǀ āṅgūṣaḥ ǀ vām ǀ magha-vānā ǀ janeṣu ǀ
ā ǀ iha ǀ yātam ǀ pathi-bhiḥ ǀ deva-yānaiḥ ǀ dasrau ǀ ime ǀ vām ǀ ni-dhayaḥ ǀ madhūnām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.058.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.4.03.05
- Maṇḍala · Anuvāka · Ṛk
- 03.05.063
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.