Ṛk 3.58.4
Saṃhitā
आ म॑न्येथा॒मा ग॑तं॒ कच्चि॒देवै॒र्विश्वे॒ जना॑सो अ॒श्विना॑ हवंते ।
इ॒मा हि वां॒ गोऋ॑जीका॒ मधू॑नि॒ प्र मि॒त्रासो॒ न द॒दुरु॒स्रो अग्रे॑ ॥
आ मन्येथाम् आ गतं कच् चिद् एवैर् विश्वे जनासो अश्विना हवन्ते |
इमा हि वां गोऋजीका मधूनि प्र मित्रासो न ददुर् उस्रो अग्रे ||
ā́ manyethāmā́ gatam káccidévairvíśve jánāso aśvínā havante ǀ
imā́ hí vām góṛjīkā mádhūni prá mitrā́so ná dadúrusró ágre ǁ
ā manyethām ā gataṃ kac cid evair viśve janāso aśvinā havante |
imā hi vāṃ goṛjīkā madhūni pra mitrāso na dadur usro agre ||
Padapāṭha
आ । म॒न्ये॒था॒म् । आ । ग॒त॒म् । कत् । चि॒त् । एवैः॑ । विश्वे॑ । जना॑सः । अ॒श्विना॑ । ह॒व॒न्ते॒ ।
इ॒मा । हि । वा॒म् । गोऽऋ॑जीका । मधू॑नि । प्र । मि॒त्रासः॑ । न । द॒दुः । उ॒स्रः । अग्रे॑ ॥
आ । मन्येथाम् । आ । गतम् । कत् । चित् । एवैः । विश्वे । जनासः । अश्विना । हवन्ते ।
इमा । हि । वाम् । गोऽऋजीका । मधूनि । प्र । मित्रासः । न । ददुः । उस्रः । अग्रे ॥
ā́ ǀ manyethām ǀ ā́ ǀ gatam ǀ kát ǀ cit ǀ évaiḥ ǀ víśve ǀ jánāsaḥ ǀ aśvínā ǀ havante ǀ
imā́ ǀ hí ǀ vām ǀ gó-ṛjīkā ǀ mádhūni ǀ prá ǀ mitrā́saḥ ǀ ná ǀ dadúḥ ǀ usráḥ ǀ ágre ǁ
ā ǀ manyethām ǀ ā ǀ gatam ǀ kat ǀ cit ǀ evaiḥ ǀ viśve ǀ janāsaḥ ǀ aśvinā ǀ havante ǀ
imā ǀ hi ǀ vām ǀ go-ṛjīkā ǀ madhūni ǀ pra ǀ mitrāsaḥ ǀ na ǀ daduḥ ǀ usraḥ ǀ agre ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.058.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.4.03.04
- Maṇḍala · Anuvāka · Ṛk
- 03.05.062
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.