Ṛk 3.58.9
Saṃhitā
अश्वि॑ना मधु॒षुत्त॑मो यु॒वाकुः॒ सोम॒स्तं पा॑त॒मा ग॑तं दुरो॒णे ।
रथो॑ ह वां॒ भूरि॒ वर्पः॒ करि॑क्रत्सु॒ताव॑तो निष्कृ॒तमाग॑मिष्ठः ॥
अश्विना मधुषुत्तमो युवाकुः सोमस् तम् पातम् आ गतं दुरोणे |
रथो ह वाम् भूरि वर्पः करिक्रत् सुतावतो निष्कृतम् आगमिष्ठः ||
áśvinā madhuṣúttamo yuvā́kuḥ sómastám pātamā́ gatam duroṇé ǀ
rátho ha vām bhū́ri várpaḥ kárikratsutā́vato niṣkṛtámā́gamiṣṭhaḥ ǁ
aśvinā madhuṣuttamo yuvākuḥ somas tam pātam ā gataṃ duroṇe |
ratho ha vām bhūri varpaḥ karikrat sutāvato niṣkṛtam āgamiṣṭhaḥ ||
Padapāṭha
अश्वि॑ना । म॒धु॒सुत्ऽत॑मः । यु॒वाकुः॑ । सोमः॑ । तम् । पा॒त॒म् । आ । ग॒त॒म् । दु॒रो॒णे ।
रथः॑ । ह॒ । वा॒म् । भूरि॑ । वर्पः॑ । करि॑क्रत् । सु॒तऽव॑तः । निः॒ऽकृ॒तम् । आऽग॑मिष्ठः ॥
अश्विना । मधुसुत्ऽतमः । युवाकुः । सोमः । तम् । पातम् । आ । गतम् । दुरोणे ।
रथः । ह । वाम् । भूरि । वर्पः । करिक्रत् । सुतऽवतः । निःऽकृतम् । आऽगमिष्ठः ॥
áśvinā ǀ madhusút-tamaḥ ǀ yuvā́kuḥ ǀ sómaḥ ǀ tám ǀ pātam ǀ ā́ ǀ gatam ǀ duroṇé ǀ
ráthaḥ ǀ ha ǀ vām ǀ bhū́ri ǀ várpaḥ ǀ kárikrat ǀ sutá-vataḥ ǀ niḥ-kṛtám ǀ ā́-gamiṣṭhaḥ ǁ
aśvinā ǀ madhusut-tamaḥ ǀ yuvākuḥ ǀ somaḥ ǀ tam ǀ pātam ǀ ā ǀ gatam ǀ duroṇe ǀ
rathaḥ ǀ ha ǀ vām ǀ bhūri ǀ varpaḥ ǀ karikrat ǀ suta-vataḥ ǀ niḥ-kṛtam ǀ ā-gamiṣṭhaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 03.058.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.4.04.04
- Maṇḍala · Anuvāka · Ṛk
- 03.05.067
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Viśvāmitra Gāthina
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.