Ṛgveda · Maṇḍala 3 · Sūkta 61

Ṛk 3.61.7

Uṣas · Viśvāmitra Gāthina

The whole sūkta Link

Saṃhitā

ऋ॒तस्य॑ बु॒ध्न उ॒षसा॑मिष॒ण्यन्वृषा॑ म॒ही रोद॑सी॒ आ वि॑वेश ।
म॒ही मि॒त्रस्य॒ वरु॑णस्य मा॒या चं॒द्रेव॑ भा॒नुं वि द॑धे पुरु॒त्रा ॥

ऋतस्य बुध्न उषसाम् इषण्यन् वृषा मही रोदसी आ विवेश |
मही मित्रस्य वरुणस्य माया चन्द्रेव भानुं वि दधे पुरुत्रा ||

ṛtásya budhná uṣásāmiṣaṇyánvṛ́ṣā mahī́ ródasī ā́ viveśa ǀ
mahī́ mitrásya váruṇasya māyā́ candréva bhānúm ví dadhe purutrā́ ǁ

ṛtasya budhna uṣasām iṣaṇyan vṛṣā mahī rodasī ā viveśa |
mahī mitrasya varuṇasya māyā candreva bhānuṃ vi dadhe purutrā ||

Padapāṭha

ऋ॒तस्य॑ । बु॒ध्ने । उ॒षसा॑म् । इ॒ष॒ण्यन् । वृषा॑ । म॒ही इति॑ । रोद॑सी॒ इति॑ । आ । वि॒वे॒श॒ ।
म॒ही । मि॒त्रस्य॑ । वरु॑णस्य । मा॒या । च॒न्द्राऽइ॑व । भा॒नुम् । वि । द॒धे॒ । पु॒रु॒ऽत्रा ॥

ऋतस्य । बुध्ने । उषसाम् । इषण्यन् । वृषा । मही इति । रोदसी इति । आ । विवेश ।
मही । मित्रस्य । वरुणस्य । माया । चन्द्राऽइव । भानुम् । वि । दधे । पुरुऽत्रा ॥

ṛtásya ǀ budhné ǀ uṣásām ǀ iṣaṇyán ǀ vṛ́ṣā ǀ mahī́ íti ǀ ródasī íti ǀ ā́ ǀ viveśa ǀ
mahī́ ǀ mitrásya ǀ váruṇasya ǀ māyā́ ǀ candrā́-iva ǀ bhānúm ǀ ví ǀ dadhe ǀ puru-trā́ ǁ

ṛtasya ǀ budhne ǀ uṣasām ǀ iṣaṇyan ǀ vṛṣā ǀ mahī iti ǀ rodasī iti ǀ ā ǀ viveśa ǀ
mahī ǀ mitrasya ǀ varuṇasya ǀ māyā ǀ candrā-iva ǀ bhānum ǀ vi ǀ dadhe ǀ puru-trā ǁ

References

Maṇḍala · Sūkta · Ṛk
03.061.07
Aṣṭaka · Adhyāya · Varga · Ṛk
3.4.08.07
Maṇḍala · Anuvāka · Ṛk
03.05.090
Devatā देवता
Uṣas
Ṛṣi ऋषि
Viśvāmitra Gāthina
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 3.61.7

Interpretations

Sāyaṇa

वृषा वृष्टिद्वारा प्रेरक आदित्य ऋतस्याग्निहोत्रादिकर्मकरणे सत्यभूतस्याह्नो बुध्ने मूल उषसामिषण्यन् प्रेरणं कुर्वन्मही महतौ रोदसी द्यावापृथिव्यावा विवेश । स्वतेजेभिः सर्वतः प्रविष्टवान् । यद्वा । वृषा वर्षितेषण्यन् सर्वतो गच्छन्नुषसां सम्बन्धी रश्मिसमूहो रोदसी द्यावापृथिव्यौ विष्टवानिति योजनीयं । तत उषा मही महती मित्रस्य वरुणस्य मित्रावरुणयोर्माया प्रभारूपा सती चन्द्रेव सुवर्णानीव भानुं स्वप्रभां पुरुत्रा बहुषु देशेशु विदधे । विदधाति । सर्वत्र प्रसारयति । मही । अल्लोपश्छान्दसः । पुरुत्रा । देवमनुष्येत्यादिनाधिकरणे त्राप्रत्ययः ॥ ७ ॥