Ṛk 4.6.10
Saṃhitā
ये ह॒ त्ये ते॒ सह॑माना अ॒यास॑स्त्वे॒षासो॑ अग्ने अ॒र्चय॒श्चरं॑ति ।
श्ये॒नासो॒ न दु॑वस॒नासो॒ अर्थं॑ तुविष्व॒णसो॒ मारु॑तं॒ न शर्धः॑ ॥
ये ह त्ये ते सहमाना अयासस् त्वेषासो अग्ने अर्चयश् चरन्ति |
श्येनासो न दुवसनासो अर्थं तुविष्वणसो मारुतं न शर्धः ||
yé ha tyé te sáhamānā ayā́sastveṣā́so agne arcáyaścáranti ǀ
śyenā́so ná duvasanā́so ártham tuviṣvaṇáso mā́rutam ná śárdhaḥ ǁ
ye ha tye te sahamānā ayāsas tveṣāso agne arcayaś caranti |
śyenāso na duvasanāso arthaṃ tuviṣvaṇaso mārutaṃ na śardhaḥ ||
Padapāṭha
ये । ह॒ । त्ये । ते॒ । सह॑मानाः । अ॒यासः॑ । त्वे॒षासः॑ । अ॒ग्ने॒ । अ॒र्चयः॑ । चर॑न्ति ।
श्ये॒नासः॑ । न । दु॒व॒स॒नासः॑ । अर्थ॑म् । तु॒वि॒ऽस्व॒नसः॑ । मारु॑तम् । न । शर्धः॑ ॥
ये । ह । त्ये । ते । सहमानाः । अयासः । त्वेषासः । अग्ने । अर्चयः । चरन्ति ।
श्येनासः । न । दुवसनासः । अर्थम् । तुविऽस्वनसः । मारुतम् । न । शर्धः ॥
yé ǀ ha ǀ tyé ǀ te ǀ sáhamānāḥ ǀ ayā́saḥ ǀ tveṣā́saḥ ǀ agne ǀ arcáyaḥ ǀ cáranti ǀ
śyenā́saḥ ǀ ná ǀ duvasanā́saḥ ǀ ártham ǀ tuvi-svanásaḥ ǀ mā́rutam ǀ ná ǀ śárdhaḥ ǁ
ye ǀ ha ǀ tye ǀ te ǀ sahamānāḥ ǀ ayāsaḥ ǀ tveṣāsaḥ ǀ agne ǀ arcayaḥ ǀ caranti ǀ
śyenāsaḥ ǀ na ǀ duvasanāsaḥ ǀ artham ǀ tuvi-svanasaḥ ǀ mārutam ǀ na ǀ śardhaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.006.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.5.05.05
- Maṇḍala · Anuvāka · Ṛk
- 04.01.096
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.