Ṛk 4.6.2
Saṃhitā
अमू॑रो॒ होता॒ न्य॑सादि वि॒क्ष्व१॒॑ग्निर्मं॒द्रो वि॒दथे॑षु॒ प्रचे॑ताः ।
ऊ॒र्ध्वं भा॒नुं स॑वि॒तेवा॑श्रे॒न्मेते॑व धू॒मं स्त॑भाय॒दुप॒ द्यां ॥
अमूरो होता न्य् असादि विक्ष्व् अग्निर् मन्द्रो विदथेषु प्रचेताः |
ऊर्ध्वम् भानुं सवितेवाश्रेन् मेतेव धूमं स्तभायद् उप द्याम् ||
ámūro hótā nyásādi vikṣvágnírmandró vidátheṣu prácetāḥ ǀ
ūrdhvám bhānúm savitévāśrenméteva dhūmám stabhāyadúpa dyā́m ǁ
amūro hotā ny asādi vikṣv agnir mandro vidatheṣu pracetāḥ |
ūrdhvam bhānuṃ savitevāśren meteva dhūmaṃ stabhāyad upa dyām ||
Padapāṭha
अमू॑रः । होता॑ । नि । अ॒सा॒दि॒ । वि॒क्षु । अ॒ग्निः । म॒न्द्रः । वि॒दथे॑षु । प्रऽचे॑ताः ।
ऊ॒र्ध्वम् । भा॒नुम् । स॒वि॒ताऽइ॑व । अ॒श्रे॒त् । मेता॑ऽइव । धू॒मम् । स्त॒भा॒य॒त् । उप॑ । द्याम् ॥
अमूरः । होता । नि । असादि । विक्षु । अग्निः । मन्द्रः । विदथेषु । प्रऽचेताः ।
ऊर्ध्वम् । भानुम् । सविताऽइव । अश्रेत् । मेताऽइव । धूमम् । स्तभायत् । उप । द्याम् ॥
ámūraḥ ǀ hótā ǀ ní ǀ asādi ǀ vikṣú ǀ agníḥ ǀ mandráḥ ǀ vidátheṣu ǀ prá-cetāḥ ǀ
ūrdhvám ǀ bhānúm ǀ savitā́-iva ǀ aśret ǀ métā-iva ǀ dhūmám ǀ stabhāyat ǀ úpa ǀ dyā́m ǁ
amūraḥ ǀ hotā ǀ ni ǀ asādi ǀ vikṣu ǀ agniḥ ǀ mandraḥ ǀ vidatheṣu ǀ pra-cetāḥ ǀ
ūrdhvam ǀ bhānum ǀ savitā-iva ǀ aśret ǀ metā-iva ǀ dhūmam ǀ stabhāyat ǀ upa ǀ dyām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.006.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.5.04.02
- Maṇḍala · Anuvāka · Ṛk
- 04.01.088
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.