Ṛk 4.6.8
Saṃhitā
द्विर्यं पंच॒ जीज॑नन्त्सं॒वसा॑नाः॒ स्वसा॑रो अ॒ग्निं मानु॑षीषु वि॒क्षु ।
उ॒ष॒र्बुध॑मथ॒र्यो॒३॒॑ न दंतं॑ शु॒क्रं स्वासं॑ पर॒शुं न ति॒ग्मं ॥
द्विर् यम् पञ्च जीजनन् संवसानाः स्वसारो अग्निम् मानुषीषु विक्षु |
उषर्बुधम् अथर्यो न दन्तं शुक्रं स्वासम् परशुं न तिग्मम् ||
dvíryám páñca jī́janantsaṃvásānāḥ svásāro agním mā́nuṣīṣu vikṣú ǀ
uṣarbúdhamatharyó ná dántam śukrám svā́sam paraśúm ná tigmám ǁ
dvir yam pañca jījanan saṃvasānāḥ svasāro agnim mānuṣīṣu vikṣu |
uṣarbudham atharyo na dantaṃ śukraṃ svāsam paraśuṃ na tigmam ||
Padapāṭha
द्विः । यम् । पञ्च॑ । जीज॑नन् । स॒म्ऽवसा॑नाः । स्वसा॑रः । अ॒ग्निम् । मानु॑षीषु । वि॒क्षु ।
उ॒षः॒ऽबुध॑म् । अ॒थ॒र्यः॑ । न । दन्त॑म् । शु॒क्रम् । सु॒ऽआस॑म् । प॒र॒शुम् । न । ति॒ग्मम् ॥
द्विः । यम् । पञ्च । जीजनन् । सम्ऽवसानाः । स्वसारः । अग्निम् । मानुषीषु । विक्षु ।
उषःऽबुधम् । अथर्यः । न । दन्तम् । शुक्रम् । सुऽआसम् । परशुम् । न । तिग्मम् ॥
dvíḥ ǀ yám ǀ páñca ǀ jī́janan ǀ sam-vásānāḥ ǀ svásāraḥ ǀ agním ǀ mā́nuṣīṣu ǀ vikṣú ǀ
uṣaḥ-búdham ǀ atharyáḥ ǀ ná ǀ dántam ǀ śukrám ǀ su-ā́sam ǀ paraśúm ǀ ná ǀ tigmám ǁ
dviḥ ǀ yam ǀ pañca ǀ jījanan ǀ sam-vasānāḥ ǀ svasāraḥ ǀ agnim ǀ mānuṣīṣu ǀ vikṣu ǀ
uṣaḥ-budham ǀ atharyaḥ ǀ na ǀ dantam ǀ śukram ǀ su-āsam ǀ paraśum ǀ na ǀ tigmam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.006.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.5.05.03
- Maṇḍala · Anuvāka · Ṛk
- 04.01.094
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.