Ṛk 4.6.7
Saṃhitā
न यस्य॒ सातु॒र्जनि॑तो॒रवा॑रि॒ न मा॒तरा॑पि॒तरा॒ नू चि॑दि॒ष्टौ ।
अधा॑ मि॒त्रो न सुधि॑तः पाव॒को॒३॒॑ऽग्निर्दी॑दाय॒ मानु॑षीषु वि॒क्षु ॥
न यस्य सातुर् जनितोर् अवारि न मातरापितरा नू चिद् इष्टौ |
अधा मित्रो न सुधितः पावको ऽग्निर् दीदाय मानुषीषु विक्षु ||
ná yásya sā́turjánitorávāri ná mātárāpitárā nū́ cidiṣṭáu ǀ
ádhā mitró ná súdhitaḥ pāvakó’gnírdīdāya mā́nuṣīṣu vikṣú ǁ
na yasya sātur janitor avāri na mātarāpitarā nū cid iṣṭau |
adhā mitro na sudhitaḥ pāvako 'gnir dīdāya mānuṣīṣu vikṣu ||
Padapāṭha
न । यस्य॑ । सातुः॑ । जनि॑तोः । अवा॑रि । न । मा॒तरा॑पि॒तरा॑ । नु । चि॒त् । इ॒ष्टौ ।
अध॑ । मि॒त्रः । न । सुऽधि॑तः । पा॒व॒कः । अ॒ग्निः । दी॒दा॒य॒ । मानु॑षीषु । वि॒क्षु ॥
न । यस्य । सातुः । जनितोः । अवारि । न । मातरापितरा । नु । चित् । इष्टौ ।
अध । मित्रः । न । सुऽधितः । पावकः । अग्निः । दीदाय । मानुषीषु । विक्षु ॥
ná ǀ yásya ǀ sā́tuḥ ǀ jánitoḥ ǀ ávāri ǀ ná ǀ mātárāpitárā ǀ nú ǀ cit ǀ iṣṭáu ǀ
ádha ǀ mitráḥ ǀ ná ǀ sú-dhitaḥ ǀ pāvakáḥ ǀ agníḥ ǀ dīdāya ǀ mā́nuṣīṣu ǀ vikṣú ǁ
na ǀ yasya ǀ sātuḥ ǀ janitoḥ ǀ avāri ǀ na ǀ mātarāpitarā ǀ nu ǀ cit ǀ iṣṭau ǀ
adha ǀ mitraḥ ǀ na ǀ su-dhitaḥ ǀ pāvakaḥ ǀ agniḥ ǀ dīdāya ǀ mānuṣīṣu ǀ vikṣu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.006.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.5.05.02
- Maṇḍala · Anuvāka · Ṛk
- 04.01.093
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.