Ṛk 4.6.5
Saṃhitā
परि॒ त्मना॑ मि॒तद्रु॑रेति॒ होता॒ग्निर्मं॒द्रो मधु॑वचा ऋ॒तावा॑ ।
द्रवं॑त्यस्य वा॒जिनो॒ न शोका॒ भयं॑ते॒ विश्वा॒ भुव॑ना॒ यदभ्रा॑ट् ॥
परि त्मना मितद्रुर् एति होताग्निर् मन्द्रो मधुवचा ऋतावा |
द्रवन्त्य् अस्य वाजिनो न शोका भयन्ते विश्वा भुवना यद् अभ्राट् ||
pári tmánā mitádrureti hótāgnírmandró mádhuvacā ṛtā́vā ǀ
drávantyasya vājíno ná śókā bháyante víśvā bhúvanā yádábhrāṭ ǁ
pari tmanā mitadrur eti hotāgnir mandro madhuvacā ṛtāvā |
dravanty asya vājino na śokā bhayante viśvā bhuvanā yad abhrāṭ ||
Padapāṭha
परि॑ । त्मना॑ । मि॒तऽद्रुः॑ । ए॒ति॒ । होता॑ । अ॒ग्निः । म॒न्द्रः । मधु॑ऽवचाः । ऋ॒तऽवा॑ ।
द्रव॑न्ति । अ॒स्य॒ । वा॒जिनः॑ । न । शोकाः॑ । भय॑न्ते । विश्वा॑ । भुव॑ना । यत् । अभ्रा॑ट् ॥
परि । त्मना । मितऽद्रुः । एति । होता । अग्निः । मन्द्रः । मधुऽवचाः । ऋतऽवा ।
द्रवन्ति । अस्य । वाजिनः । न । शोकाः । भयन्ते । विश्वा । भुवना । यत् । अभ्राट् ॥
pári ǀ tmánā ǀ mitá-druḥ ǀ eti ǀ hótā ǀ agníḥ ǀ mandráḥ ǀ mádhu-vacāḥ ǀ ṛtá-vā ǀ
drávanti ǀ asya ǀ vājínaḥ ǀ ná ǀ śókāḥ ǀ bháyante ǀ víśvā ǀ bhúvanā ǀ yát ǀ ábhrāṭ ǁ
pari ǀ tmanā ǀ mita-druḥ ǀ eti ǀ hotā ǀ agniḥ ǀ mandraḥ ǀ madhu-vacāḥ ǀ ṛta-vā ǀ
dravanti ǀ asya ǀ vājinaḥ ǀ na ǀ śokāḥ ǀ bhayante ǀ viśvā ǀ bhuvanā ǀ yat ǀ abhrāṭ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.006.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.5.04.05
- Maṇḍala · Anuvāka · Ṛk
- 04.01.091
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.