Ṛk 4.22.1
Saṃhitā
यन्न॒ इंद्रो॑ जुजु॒षे यच्च॒ वष्टि॒ तन्नो॑ म॒हान्क॑रति शु॒ष्म्या चि॑त् ।
ब्रह्म॒ स्तोमं॑ म॒घवा॒ सोम॑मु॒क्था यो अश्मा॑नं॒ शव॑सा॒ बिभ्र॒देति॑ ॥
यन् न इन्द्रो जुजुषे यच् च वष्टि तन् नो महान् करति शुष्म्य् आ चित् |
ब्रह्म स्तोमम् मघवा सोमम् उक्था यो अश्मानं शवसा बिभ्रद् एति ||
yánna índro jujuṣé yácca váṣṭi tánno mahā́nkarati śuṣmyā́ cit ǀ
bráhma stómam maghávā sómamukthā́ yó áśmānam śávasā bíbhradéti ǁ
yan na indro jujuṣe yac ca vaṣṭi tan no mahān karati śuṣmy ā cit |
brahma stomam maghavā somam ukthā yo aśmānaṃ śavasā bibhrad eti ||
Padapāṭha
यत् । नः॒ । इन्द्रः॑ । जु॒जु॒षे । यत् । च॒ । वष्टि॑ । तत् । नः॒ । म॒हान् । क॒र॒ति॒ । शु॒ष्मी । आ । चि॒त् ।
ब्रह्म॑ । स्तोम॑म् । म॒घऽवा॑ । सोम॑म् । उ॒क्था । यः । अश्मा॑नम् । शव॑सा । बिभ्र॑त् । एति॑ ॥
यत् । नः । इन्द्रः । जुजुषे । यत् । च । वष्टि । तत् । नः । महान् । करति । शुष्मी । आ । चित् ।
ब्रह्म । स्तोमम् । मघऽवा । सोमम् । उक्था । यः । अश्मानम् । शवसा । बिभ्रत् । एति ॥
yát ǀ naḥ ǀ índraḥ ǀ jujuṣé ǀ yát ǀ ca ǀ váṣṭi ǀ tát ǀ naḥ ǀ mahā́n ǀ karati ǀ śuṣmī́ ǀ ā́ ǀ cit ǀ
bráhma ǀ stómam ǀ maghá-vā ǀ sómam ǀ ukthā́ ǀ yáḥ ǀ áśmānam ǀ śávasā ǀ bíbhrat ǀ éti ǁ
yat ǀ naḥ ǀ indraḥ ǀ jujuṣe ǀ yat ǀ ca ǀ vaṣṭi ǀ tat ǀ naḥ ǀ mahān ǀ karati ǀ śuṣmī ǀ ā ǀ cit ǀ
brahma ǀ stomam ǀ magha-vā ǀ somam ǀ ukthā ǀ yaḥ ǀ aśmānam ǀ śavasā ǀ bibhrat ǀ eti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.022.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.07.01
- Maṇḍala · Anuvāka · Ṛk
- 04.03.001
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.