Ṛk 4.22.7
Saṃhitā
अत्राह॑ ते हरिव॒स्ता उ॑ दे॒वीरवो॑भिरिंद्र स्तवंत॒ स्वसा॑रः ।
यत्सी॒मनु॒ प्र मु॒चो ब॑द्बधा॒ना दी॒र्घामनु॒ प्रसि॑तिं स्यंद॒यध्यै॑ ॥
अत्राह ते हरिवस् ता उ देवीर् अवोभिर् इन्द्र स्तवन्त स्वसारः |
यत् सीम् अनु प्र मुचो बद्बधाना दीर्घाम् अनु प्रसितिं स्यन्दयध्यै ||
átrā́ha te harivastā́ u devī́rávobhirindra stavanta svásāraḥ ǀ
yátsīmánu prá mucó badbadhānā́ dīrghā́mánu prásitim syandayádhyai ǁ
atrāha te harivas tā u devīr avobhir indra stavanta svasāraḥ |
yat sīm anu pra muco badbadhānā dīrghām anu prasitiṃ syandayadhyai ||
Padapāṭha
अत्र॑ । अह॑ । ते॒ । ह॒रि॒ऽवः॒ । ताः । ऊं॒ इति॑ । दे॒वीः । अवः॑ऽभिः । इ॒न्द्र॒ । स्त॒व॒न्त॒ । स्वसा॑रः ।
यत् । सी॒म् । अनु॑ । प्र । मु॒चः । ब॒द्ब॒धा॒नाः । दी॒र्घाम् । अनु॑ । प्रऽसि॑तिम् । स्य॒न्द॒यध्यै॑ ॥
अत्र । अह । ते । हरिऽवः । ताः । ऊं इति । देवीः । अवःऽभिः । इन्द्र । स्तवन्त । स्वसारः ।
यत् । सीम् । अनु । प्र । मुचः । बद्बधानाः । दीर्घाम् । अनु । प्रऽसितिम् । स्यन्दयध्यै ॥
átra ǀ áha ǀ te ǀ hari-vaḥ ǀ tā́ḥ ǀ ūṃ íti ǀ devī́ḥ ǀ ávaḥ-bhiḥ ǀ indra ǀ stavanta ǀ svásāraḥ ǀ
yát ǀ sīm ǀ ánu ǀ prá ǀ mucáḥ ǀ badbadhānā́ḥ ǀ dīrghā́m ǀ ánu ǀ prá-sitim ǀ syandayádhyai ǁ
atra ǀ aha ǀ te ǀ hari-vaḥ ǀ tāḥ ǀ ūṃ iti ǀ devīḥ ǀ avaḥ-bhiḥ ǀ indra ǀ stavanta ǀ svasāraḥ ǀ
yat ǀ sīm ǀ anu ǀ pra ǀ mucaḥ ǀ badbadhānāḥ ǀ dīrghām ǀ anu ǀ pra-sitim ǀ syandayadhyai ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.022.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.08.02
- Maṇḍala · Anuvāka · Ṛk
- 04.03.007
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.