Ṛk 4.22.10
Saṃhitā
अ॒स्माक॒मित्सु शृ॑णुहि॒ त्वमिं॑द्रा॒स्मभ्यं॑ चि॒त्राँ उप॑ माहि॒ वाजा॑न् ।
अ॒स्मभ्यं॒ विश्वा॑ इषणः॒ पुरं॑धीर॒स्माकं॒ सु म॑घवन्बोधि गो॒दाः ॥
अस्माकम् इत् सु शृणुहि त्वम् इन्द्रास्मभ्यं चित्रां उप माहि वाजान् |
अस्मभ्यं विश्वा इषणः पुरन्धीर् अस्माकं सु मघवन् बोधि गोदाः ||
asmā́kamítsú śṛṇuhi tvámindrāsmábhyam citrā́m̐ úpa māhi vā́jān ǀ
asmábhyam víśvā iṣaṇaḥ púraṃdhīrasmā́kam sú maghavanbodhi godā́ḥ ǁ
asmākam it su śṛṇuhi tvam indrāsmabhyaṃ citrāṃ upa māhi vājān |
asmabhyaṃ viśvā iṣaṇaḥ purandhīr asmākaṃ su maghavan bodhi godāḥ ||
Padapāṭha
अ॒स्माक॑म् । इत् । सु । शृ॒णु॒हि॒ । त्वम् । इ॒न्द्र॒ । अ॒स्मभ्य॑म् । चि॒त्रान् । उप॑ । मा॒हि॒ । वाजा॑न् ।
अ॒स्मभ्य॑म् । विश्वाः॑ । इ॒ष॒णः॒ । पुर॑म्ऽधीः । अ॒स्माक॑म् । सु । म॒घ॒ऽव॒न् । बो॒धि॒ । गो॒ऽदाः ॥
अस्माकम् । इत् । सु । शृणुहि । त्वम् । इन्द्र । अस्मभ्यम् । चित्रान् । उप । माहि । वाजान् ।
अस्मभ्यम् । विश्वाः । इषणः । पुरम्ऽधीः । अस्माकम् । सु । मघऽवन् । बोधि । गोऽदाः ॥
asmā́kam ǀ ít ǀ sú ǀ śṛṇuhi ǀ tvám ǀ indra ǀ asmábhyam ǀ citrā́n ǀ úpa ǀ māhi ǀ vā́jān ǀ
asmábhyam ǀ víśvāḥ ǀ iṣaṇaḥ ǀ púram-dhīḥ ǀ asmā́kam ǀ sú ǀ magha-van ǀ bodhi ǀ go-dā́ḥ ǁ
asmākam ǀ it ǀ su ǀ śṛṇuhi ǀ tvam ǀ indra ǀ asmabhyam ǀ citrān ǀ upa ǀ māhi ǀ vājān ǀ
asmabhyam ǀ viśvāḥ ǀ iṣaṇaḥ ǀ puram-dhīḥ ǀ asmākam ǀ su ǀ magha-van ǀ bodhi ǀ go-dāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.022.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.08.05
- Maṇḍala · Anuvāka · Ṛk
- 04.03.010
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.