Ṛk 4.22.4
Saṃhitā
विश्वा॒ रोधां॑सि प्र॒वत॑श्च पू॒र्वीर्द्यौर्ऋ॒ष्वाज्जनि॑मन्रेजत॒ क्षाः ।
आ मा॒तरा॒ भर॑ति शु॒ष्म्या गोर्नृ॒वत्परि॑ज्मन्नोनुवंत॒ वाताः॑ ॥
विश्वा रोधांसि प्रवतश् च पूर्वीर् द्यौर् ऋष्वाज् जनिमन् रेजत क्षाः |
आ मातरा भरति शुष्म्य् आ गोर् नृवत् परिज्मन् नोनुवन्त वाताः ||
víśvā ródhāṃsi pravátaśca pūrvī́rdyáurṛṣvā́jjánimanrejata kṣā́ḥ ǀ
ā́ mātárā bhárati śuṣmyā́ górnṛvátpárijmannonuvanta vā́tāḥ ǁ
viśvā rodhāṃsi pravataś ca pūrvīr dyaur ṛṣvāj janiman rejata kṣāḥ |
ā mātarā bharati śuṣmy ā gor nṛvat parijman nonuvanta vātāḥ ||
Padapāṭha
विश्वा॑ । रोधां॑सि । प्र॒ऽवतः॑ । च॒ । पू॒र्वीः । द्यौः । ऋ॒ष्वात् । जनि॑मन् । रे॒ज॒त॒ । क्षाः ।
आ । मा॒तरा॑ । भर॑ति । शु॒ष्मी । आ । गोः । नृ॒ऽवत् । परि॑ऽज्मन् । नो॒नु॒व॒न्त॒ । वाताः॑ ॥
विश्वा । रोधांसि । प्रऽवतः । च । पूर्वीः । द्यौः । ऋष्वात् । जनिमन् । रेजत । क्षाः ।
आ । मातरा । भरति । शुष्मी । आ । गोः । नृऽवत् । परिऽज्मन् । नोनुवन्त । वाताः ॥
víśvā ǀ ródhāṃsi ǀ pra-vátaḥ ǀ ca ǀ pūrvī́ḥ ǀ dyáuḥ ǀ ṛṣvā́t ǀ jániman ǀ rejata ǀ kṣā́ḥ ǀ
ā́ ǀ mātárā ǀ bhárati ǀ śuṣmī́ ǀ ā́ ǀ góḥ ǀ nṛ-vát ǀ pári-jman ǀ nonuvanta ǀ vā́tāḥ ǁ
viśvā ǀ rodhāṃsi ǀ pra-vataḥ ǀ ca ǀ pūrvīḥ ǀ dyauḥ ǀ ṛṣvāt ǀ janiman ǀ rejata ǀ kṣāḥ ǀ
ā ǀ mātarā ǀ bharati ǀ śuṣmī ǀ ā ǀ goḥ ǀ nṛ-vat ǀ pari-jman ǀ nonuvanta ǀ vātāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.022.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.07.04
- Maṇḍala · Anuvāka · Ṛk
- 04.03.004
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.