Ṛk 4.22.2
Saṃhitā
वृषा॒ वृषं॑धिं॒ चतु॑रश्रि॒मस्य॑न्नु॒ग्रो बा॒हुभ्यां॒ नृत॑मः॒ शची॑वान् ।
श्रि॒ये परु॑ष्णीमु॒षमा॑ण॒ ऊर्णां॒ यस्याः॒ पर्वा॑णि स॒ख्याय॑ वि॒व्ये ॥
वृषा वृषन्धिं चतुरश्रिम् अस्यन्न् उग्रो बाहुभ्यां नृतमः शचीवान् |
श्रिये परुष्णीम् उषमाण ऊर्णां यस्याः पर्वाणि सख्याय विव्ये ||
vṛ́ṣā vṛ́ṣandhim cáturaśrimásyannugró bāhúbhyām nṛ́tamaḥ śácīvān ǀ
śriyé páruṣṇīmuṣámāṇa ū́rṇām yásyāḥ párvāṇi sakhyā́ya vivyé ǁ
vṛṣā vṛṣandhiṃ caturaśrim asyann ugro bāhubhyāṃ nṛtamaḥ śacīvān |
śriye paruṣṇīm uṣamāṇa ūrṇāṃ yasyāḥ parvāṇi sakhyāya vivye ||
Padapāṭha
वृषा॑ । वृष॑न्धिम् । चतुः॑ऽअश्रिम् । अस्य॑न् । उ॒ग्रः । बा॒हुऽभ्या॑म् । नृऽत॑मः । शची॑ऽवान् ।
श्रि॒ये । परु॑ष्णीम् । उ॒षमा॑णः । ऊर्णा॑म् । यस्याः॑ । पर्वा॑णि । स॒ख्याय॑ । वि॒व्ये ॥
वृषा । वृषन्धिम् । चतुःऽअश्रिम् । अस्यन् । उग्रः । बाहुऽभ्याम् । नृऽतमः । शचीऽवान् ।
श्रिये । परुष्णीम् । उषमाणः । ऊर्णाम् । यस्याः । पर्वाणि । सख्याय । विव्ये ॥
vṛ́ṣā ǀ vṛ́ṣandhim ǀ cátuḥ-aśrim ǀ ásyan ǀ ugráḥ ǀ bāhú-bhyām ǀ nṛ́-tamaḥ ǀ śácī-vān ǀ
śriyé ǀ páruṣṇīm ǀ uṣámāṇaḥ ǀ ū́rṇām ǀ yásyāḥ ǀ párvāṇi ǀ sakhyā́ya ǀ vivyé ǁ
vṛṣā ǀ vṛṣandhim ǀ catuḥ-aśrim ǀ asyan ǀ ugraḥ ǀ bāhu-bhyām ǀ nṛ-tamaḥ ǀ śacī-vān ǀ
śriye ǀ paruṣṇīm ǀ uṣamāṇaḥ ǀ ūrṇām ǀ yasyāḥ ǀ parvāṇi ǀ sakhyāya ǀ vivye ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.022.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.6.07.02
- Maṇḍala · Anuvāka · Ṛk
- 04.03.002
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.