Ṛgveda · Maṇḍala 4 · Sūkta 22

Ṛk 4.22.11

Indra · Vāmadeva Gautama

The whole sūkta Link

Saṃhitā

नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।
अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥

नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः |
अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ||

nū́ ṣṭutá indra nū́ gṛṇāná íṣam jaritré nadyó ná pīpeḥ ǀ
ákāri te harivo bráhma návyam dhiyā́ syāma rathyáḥ sadāsā́ḥ ǁ

nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||

Padapāṭha

नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः ।
अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । स॒दा॒ऽसाः ॥

नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरिति पीपेः ।
अकारि । ते । हरिऽवः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदाऽसाः ॥

nú ǀ stutáḥ ǀ indra ǀ nú ǀ gṛṇānáḥ ǀ íṣam ǀ jaritré ǀ nadyáḥ ǀ ná ǀ pīperíti pīpeḥ ǀ
ákāri ǀ te ǀ hari-vaḥ ǀ bráhma ǀ návyam ǀ dhiyā́ ǀ syāma ǀ rathyáḥ ǀ sadā-sā́ḥ ǁ

nu ǀ stutaḥ ǀ indra ǀ nu ǀ gṛṇānaḥ ǀ iṣam ǀ jaritre ǀ nadyaḥ ǀ na ǀ pīperiti pīpeḥ ǀ
akāri ǀ te ǀ hari-vaḥ ǀ brahma ǀ navyam ǀ dhiyā ǀ syāma ǀ rathyaḥ ǀ sadā-sāḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
04.022.11
Aṣṭaka · Adhyāya · Varga · Ṛk
3.6.08.06
Maṇḍala · Anuvāka · Ṛk
04.03.011
Devatā देवता
Indra
Ṛṣi ऋषि
Vāmadeva Gautama
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 4.22.11

Interpretations

Sāyaṇa

हे इन्द्र नु क्षिप्रं स्तुतः पूर्वैऋषिबिह्ः सम्स्तुतो नु क्शिप्रं गृणानोऽस्माभिः स्तूयमानास्त्वमिषमन्नं जरित्रे स्तोत्रे मह्यं नद्यो नाद्भिर्नदीरिव पिपेः । प्यायय । प्रवृद्धं कुरु । हे हरिवो हरिसंज्ञकाश्वोपेतेन्द्र ते तुभ्यं नव्यं नवतरं ब्रह्मस्तोत्रमकारि । अस्माभिः क्रियते । रथ्यो रथवन्तो वयं धिया प्रज्ञारूपया स्तुत्या सदासास्त्वां सर्वदा भजमानास्त्वदर्थं हवीरूपस्यान्नस्य दातारो वा स्याम । भूयास्म ॥ ११ ॥