Ṛk 4.33.10
Saṃhitā
ये हरी॑ मे॒धयो॒क्था मदं॑त॒ इंद्रा॑य च॒क्रुः सु॒युजा॒ ये अश्वा॑ ।
ते रा॒यस्पोषं॒ द्रवि॑णान्य॒स्मे ध॒त्त ऋ॑भवः क्षेम॒यंतो॒ न मि॒त्रं ॥
ये हरी मेधयोक्था मदन्त इन्द्राय चक्रुः सुयुजा ये अश्वा |
ते रायस् पोषं द्रविणान्य् अस्मे धत्त ऋभवः क्षेमयन्तो न मित्रम् ||
yé hárī medháyokthā́ mádanta índrāya cakrúḥ suyújā yé áśvā ǀ
té rāyáspóṣam dráviṇānyasmé dhattá ṛbhavaḥ kṣemayánto ná mitrám ǁ
ye harī medhayokthā madanta indrāya cakruḥ suyujā ye aśvā |
te rāyas poṣaṃ draviṇāny asme dhatta ṛbhavaḥ kṣemayanto na mitram ||
Padapāṭha
ये । हरी॒ इति॑ । मे॒धया॑ । उ॒क्था । मद॑न्तः । इन्द्रा॑य । च॒क्रुः । सु॒ऽयुजा॑ । ये । अश्वा॑ ।
ते । रा॒यः । पोष॑म् । द्रवि॑णानि । अ॒स्मे इति॑ । ध॒त्त । ऋ॒भ॒वः॒ । क्षे॒म॒ऽयन्तः॑ । न । मि॒त्रम् ॥
ये । हरी इति । मेधया । उक्था । मदन्तः । इन्द्राय । चक्रुः । सुऽयुजा । ये । अश्वा ।
ते । रायः । पोषम् । द्रविणानि । अस्मे इति । धत्त । ऋभवः । क्षेमऽयन्तः । न । मित्रम् ॥
yé ǀ hárī íti ǀ medháyā ǀ ukthā́ ǀ mádantaḥ ǀ índrāya ǀ cakrúḥ ǀ su-yújā ǀ yé ǀ áśvā ǀ
té ǀ rāyáḥ ǀ póṣam ǀ dráviṇāni ǀ asmé íti ǀ dhattá ǀ ṛbhavaḥ ǀ kṣema-yántaḥ ǀ ná ǀ mitrám ǁ
ye ǀ harī iti ǀ medhayā ǀ ukthā ǀ madantaḥ ǀ indrāya ǀ cakruḥ ǀ su-yujā ǀ ye ǀ aśvā ǀ
te ǀ rāyaḥ ǀ poṣam ǀ draviṇāni ǀ asme iti ǀ dhatta ǀ ṛbhavaḥ ǀ kṣema-yantaḥ ǀ na ǀ mitram ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.033.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.02.05
- Maṇḍala · Anuvāka · Ṛk
- 04.04.010
- Devatā देवता
- Ṛbhus
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.