Ṛk 4.33.6
Saṃhitā
स॒त्यमू॑चु॒र्नर॑ ए॒वा हि च॒क्रुरनु॑ स्व॒धामृ॒भवो॑ जग्मुरे॒तां ।
वि॒भ्राज॑मानांश्चम॒साँ अहे॒वावे॑न॒त्त्वष्टा॑ च॒तुरो॑ ददृ॒श्वान् ॥
सत्यम् ऊचुर् नर एवा हि चक्रुर् अनु स्वधाम् ऋभवो जग्मुर् एताम् |
विभ्राजमानांश् चमसां अहेवावेनत् त्वष्टा चतुरो ददृश्वान् ||
satyámūcurnára evā́ hí cakrúránu svadhā́mṛbhávo jagmuretā́m ǀ
vibhrā́jamānāṃścamasā́m̐ áhevā́venattváṣṭā catúro dadṛśvā́n ǁ
satyam ūcur nara evā hi cakrur anu svadhām ṛbhavo jagmur etām |
vibhrājamānāṃś camasāṃ ahevāvenat tvaṣṭā caturo dadṛśvān ||
Padapāṭha
स॒त्यम् । ऊ॒चुः॒ । नरः॑ । ए॒व । हि । च॒क्रुः । अनु॑ । स्व॒धाम् । ऋ॒भवः॑ । ज॒ग्मुः॒ । ए॒ताम् ।
वि॒ऽभ्राज॑मानान् । च॒म॒सान् । अहा॑ऽइव । अवे॑नत् । त्वष्टा॑ । च॒तुरः॑ । द॒दृ॒श्वान् ॥
सत्यम् । ऊचुः । नरः । एव । हि । चक्रुः । अनु । स्वधाम् । ऋभवः । जग्मुः । एताम् ।
विऽभ्राजमानान् । चमसान् । अहाऽइव । अवेनत् । त्वष्टा । चतुरः । ददृश्वान् ॥
satyám ǀ ūcuḥ ǀ náraḥ ǀ evá ǀ hí ǀ cakrúḥ ǀ ánu ǀ svadhā́m ǀ ṛbhávaḥ ǀ jagmuḥ ǀ etā́m ǀ
vi-bhrā́jamānān ǀ camasā́n ǀ áhā-iva ǀ ávenat ǀ tváṣṭā ǀ catúraḥ ǀ dadṛśvā́n ǁ
satyam ǀ ūcuḥ ǀ naraḥ ǀ eva ǀ hi ǀ cakruḥ ǀ anu ǀ svadhām ǀ ṛbhavaḥ ǀ jagmuḥ ǀ etām ǀ
vi-bhrājamānān ǀ camasān ǀ ahā-iva ǀ avenat ǀ tvaṣṭā ǀ caturaḥ ǀ dadṛśvān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.033.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.02.01
- Maṇḍala · Anuvāka · Ṛk
- 04.04.006
- Devatā देवता
- Ṛbhus
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.