Ṛk 4.33.1
Saṃhitā
प्र ऋ॒भुभ्यो॑ दू॒तमि॑व॒ वाच॑मिष्य उप॒स्तिरे॒ श्वैत॑रीं धे॒नुमी॑ळे ।
ये वात॑जूतास्त॒रणि॑भि॒रेवैः॒ परि॒ द्यां स॒द्यो अ॒पसो॑ बभू॒वुः ॥
प्र ऋभुभ्यो दूतम् इव वाचम् इष्य उपस्तिरे श्वैतरीं धेनुम् ईळे |
ये वातजूतास् तरणिभिर् एवैः परि द्यां सद्यो अपसो बभूवुः ||
prá ṛbhúbhyo dūtámiva vā́camiṣya upastíre śváitarīm dhenúmīḷe ǀ
yé vā́tajūtāstaráṇibhirévaiḥ pári dyā́m sadyó apáso babhūvúḥ ǁ
pra ṛbhubhyo dūtam iva vācam iṣya upastire śvaitarīṃ dhenum īḷe |
ye vātajūtās taraṇibhir evaiḥ pari dyāṃ sadyo apaso babhūvuḥ ||
Padapāṭha
प्र । ऋ॒भुऽभ्यः॑ । दू॒तम्ऽइ॑व । वाच॑म् । इ॒ष्ये॒ । उ॒प॒ऽस्तिरे॑ । श्वैत॑रीम् । धे॒नुम् । ई॒ळे॒ ।
ये । वात॑ऽजूताः । त॒रणि॑ऽभिः । एवैः॑ । परि॑ । द्याम् । स॒द्यः । अ॒पसः॑ । ब॒भू॒वुः ॥
प्र । ऋभुऽभ्यः । दूतम्ऽइव । वाचम् । इष्ये । उपऽस्तिरे । श्वैतरीम् । धेनुम् । ईळे ।
ये । वातऽजूताः । तरणिऽभिः । एवैः । परि । द्याम् । सद्यः । अपसः । बभूवुः ॥
prá ǀ ṛbhú-bhyaḥ ǀ dūtám-iva ǀ vā́cam ǀ iṣye ǀ upa-stíre ǀ śváitarīm ǀ dhenúm ǀ īḷe ǀ
yé ǀ vā́ta-jūtāḥ ǀ taráṇi-bhiḥ ǀ évaiḥ ǀ pári ǀ dyā́m ǀ sadyáḥ ǀ apásaḥ ǀ babhūvúḥ ǁ
pra ǀ ṛbhu-bhyaḥ ǀ dūtam-iva ǀ vācam ǀ iṣye ǀ upa-stire ǀ śvaitarīm ǀ dhenum ǀ īḷe ǀ
ye ǀ vāta-jūtāḥ ǀ taraṇi-bhiḥ ǀ evaiḥ ǀ pari ǀ dyām ǀ sadyaḥ ǀ apasaḥ ǀ babhūvuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.033.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.01.01
- Maṇḍala · Anuvāka · Ṛk
- 04.04.001
- Devatā देवता
- Ṛbhus
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.