Ṛk 4.33.7
Saṃhitā
द्वाद॑श॒ द्यून्यदगो॑ह्यस्याति॒थ्ये रण॑न्नृ॒भवः॑ स॒संतः॑ ।
सु॒क्षेत्रा॑कृण्व॒न्नन॑यंत॒ सिंधूं॒धन्वाति॑ष्ठ॒न्नोष॑धीर्नि॒म्नमापः॑ ॥
द्वादश द्यून् यद् अगोह्यस्यातिथ्ये रणन्न् ऋभवः ससन्तः |
सुक्षेत्राकृण्वन्न् अनयन्त सिन्धून् धन्वातिष्ठन्न् ओषधीर् निम्नम् आपः ||
dvā́daśa dyū́nyádágohyasyātithyé ráṇannṛbhávaḥ sasántaḥ ǀ
sukṣétrākṛṇvannánayanta síndhūndhánvā́tiṣṭhannóṣadhīrnimnámā́paḥ ǁ
dvādaśa dyūn yad agohyasyātithye raṇann ṛbhavaḥ sasantaḥ |
sukṣetrākṛṇvann anayanta sindhūn dhanvātiṣṭhann oṣadhīr nimnam āpaḥ ||
Padapāṭha
द्वाद॑श । द्यून् । यत् । अगो॑ह्यस्य । आ॒ति॒थ्ये । रण॑न् । ऋ॒भवः॑ । स॒सन्तः॑ ।
सु॒ऽक्षेत्रा॑ । अ॒कृ॒ण्व॒न् । अन॑यन्त । सिन्धू॑न् । धन्व॑ । आ । अ॒ति॒ष्ठ॒न् । ओष॑धीः । नि॒म्नम् । आपः॑ ॥
द्वादश । द्यून् । यत् । अगोह्यस्य । आतिथ्ये । रणन् । ऋभवः । ससन्तः ।
सुऽक्षेत्रा । अकृण्वन् । अनयन्त । सिन्धून् । धन्व । आ । अतिष्ठन् । ओषधीः । निम्नम् । आपः ॥
dvā́daśa ǀ dyū́n ǀ yát ǀ ágohyasya ǀ ātithyé ǀ ráṇan ǀ ṛbhávaḥ ǀ sasántaḥ ǀ
su-kṣétrā ǀ akṛṇvan ǀ ánayanta ǀ síndhūn ǀ dhánva ǀ ā́ ǀ atiṣṭhan ǀ óṣadhīḥ ǀ nimnám ǀ ā́paḥ ǁ
dvādaśa ǀ dyūn ǀ yat ǀ agohyasya ǀ ātithye ǀ raṇan ǀ ṛbhavaḥ ǀ sasantaḥ ǀ
su-kṣetrā ǀ akṛṇvan ǀ anayanta ǀ sindhūn ǀ dhanva ǀ ā ǀ atiṣṭhan ǀ oṣadhīḥ ǀ nimnam ǀ āpaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.033.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.02.02
- Maṇḍala · Anuvāka · Ṛk
- 04.04.007
- Devatā देवता
- Ṛbhus
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.