Ṛk 4.33.2
Saṃhitā
य॒दार॒मक्र॑न्नृ॒भवः॑ पि॒तृभ्यां॒ परि॑विष्टी वे॒षणा॑ दं॒सना॑भिः ।
आदिद्दे॒वाना॒मुप॑ स॒ख्यमा॑यं॒धीरा॑सः पु॒ष्टिम॑वहन्म॒नायै॑ ॥
यदारम् अक्रन्न् ऋभवः पितृभ्याम् परिविष्टी वेषणा दंसनाभिः |
आद् इद् देवानाम् उप सख्यम् आयन् धीरासः पुष्टिम् अवहन् मनायै ||
yadā́ramákrannṛbhávaḥ pitṛ́bhyām páriviṣṭī veṣáṇā daṃsánābhiḥ ǀ
ā́díddevā́nāmúpa sakhyámāyandhī́rāsaḥ puṣṭímavahanmanā́yai ǁ
yadāram akrann ṛbhavaḥ pitṛbhyām pariviṣṭī veṣaṇā daṃsanābhiḥ |
ād id devānām upa sakhyam āyan dhīrāsaḥ puṣṭim avahan manāyai ||
Padapāṭha
य॒दा । अर॑म् । अक्र॑न् । ऋ॒भवः॑ । पि॒तृऽभ्या॑म् । परि॑ऽविष्टी । वे॒षणा॑ । दं॒सना॑भिः ।
आत् । इत् । दे॒वाना॑म् । उप॑ । स॒ख्यम् । आ॒य॒न् । धीरा॑सः । पु॒ष्टिम् । अ॒व॒ह॒न् । म॒नायै॑ ॥
यदा । अरम् । अक्रन् । ऋभवः । पितृऽभ्याम् । परिऽविष्टी । वेषणा । दंसनाभिः ।
आत् । इत् । देवानाम् । उप । सख्यम् । आयन् । धीरासः । पुष्टिम् । अवहन् । मनायै ॥
yadā́ ǀ áram ǀ ákran ǀ ṛbhávaḥ ǀ pitṛ́-bhyām ǀ pári-viṣṭī ǀ veṣáṇā ǀ daṃsánābhiḥ ǀ
ā́t ǀ ít ǀ devā́nām ǀ úpa ǀ sakhyám ǀ āyan ǀ dhī́rāsaḥ ǀ puṣṭím ǀ avahan ǀ manā́yai ǁ
yadā ǀ aram ǀ akran ǀ ṛbhavaḥ ǀ pitṛ-bhyām ǀ pari-viṣṭī ǀ veṣaṇā ǀ daṃsanābhiḥ ǀ
āt ǀ it ǀ devānām ǀ upa ǀ sakhyam ǀ āyan ǀ dhīrāsaḥ ǀ puṣṭim ǀ avahan ǀ manāyai ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.033.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.01.02
- Maṇḍala · Anuvāka · Ṛk
- 04.04.002
- Devatā देवता
- Ṛbhus
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.