Ṛk 4.33.11
Saṃhitā
इ॒दाह्नः॑ पी॒तिमु॒त वो॒ मदं॑ धु॒र्न ऋ॒ते श्रां॒तस्य॑ स॒ख्याय॑ दे॒वाः ।
ते नू॒नम॒स्मे ऋ॑भवो॒ वसू॑नि तृ॒तीये॑ अ॒स्मिन्त्सव॑ने दधात ॥
इदाह्नः पीतिम् उत वो मदं धुर् न ऋते श्रान्तस्य सख्याय देवाः |
ते नूनम् अस्मे ऋभवो वसूनि तृतीये अस्मिन् सवने दधात ||
idā́hnaḥ pītímutá vo mádam dhurná ṛté śrāntásya sakhyā́ya devā́ḥ ǀ
té nūnámasmé ṛbhavo vásūni tṛtī́ye asmíntsávane dadhāta ǁ
idāhnaḥ pītim uta vo madaṃ dhur na ṛte śrāntasya sakhyāya devāḥ |
te nūnam asme ṛbhavo vasūni tṛtīye asmin savane dadhāta ||
Padapāṭha
इ॒दा । अह्नः॑ । पी॒तिम् । उ॒त । वः॒ । मद॑म् । धुः॒ । न । ऋ॒ते । श्रा॒न्तस्य॑ । स॒ख्याय॑ । दे॒वाः ।
ते । नू॒नम् । अ॒स्मे इति॑ । ऋ॒भ॒वः॒ । वसू॑नि । तृ॒तीये॑ । अ॒स्मिन् । सव॑ने । द॒धा॒त॒ ॥
इदा । अह्नः । पीतिम् । उत । वः । मदम् । धुः । न । ऋते । श्रान्तस्य । सख्याय । देवाः ।
ते । नूनम् । अस्मे इति । ऋभवः । वसूनि । तृतीये । अस्मिन् । सवने । दधात ॥
idā́ ǀ áhnaḥ ǀ pītím ǀ utá ǀ vaḥ ǀ mádam ǀ dhuḥ ǀ ná ǀ ṛté ǀ śrāntásya ǀ sakhyā́ya ǀ devā́ḥ ǀ
té ǀ nūnám ǀ asmé íti ǀ ṛbhavaḥ ǀ vásūni ǀ tṛtī́ye ǀ asmín ǀ sávane ǀ dadhāta ǁ
idā ǀ ahnaḥ ǀ pītim ǀ uta ǀ vaḥ ǀ madam ǀ dhuḥ ǀ na ǀ ṛte ǀ śrāntasya ǀ sakhyāya ǀ devāḥ ǀ
te ǀ nūnam ǀ asme iti ǀ ṛbhavaḥ ǀ vasūni ǀ tṛtīye ǀ asmin ǀ savane ǀ dadhāta ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 04.033.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.7.02.06
- Maṇḍala · Anuvāka · Ṛk
- 04.04.011
- Devatā देवता
- Ṛbhus
- Ṛṣi ऋषि
- Vāmadeva Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.